________________
५३६
विशेषावश्यकभाग्ये [नि० ५६१अधवा चोतेति गाहा । एवं तर्हि आर्यरक्षितस्वामिप्रभृतयो गुरवो मिथ्यादृष्टयः स्युः सूत्रोक्तान्यथाप्ररूपणात्, जमालिप्रभृतिनिह्नववत् । उच्यते-अन्य या प्र] रूपणादित्यपक्षधर्मो हेतुः । यस्माद् गुरखो नेवमभिदधति-सम्प्रति सूत्रेपु न सन्येव नयाः, न च शेषानुयोगत्रयं नास्त्येव, विपरीतार्थ वा । कि तहिं ! मन्दमेधसामन्यसत्त्वानामनुग्रहार्थ युगकालानुरूपं शिष्याणामेकानुयोगविषयै कनयाभिधानं सुखग्रहणाय सोपानपदिकान्यायेन देश यन्ति । तद्ग्रहणोत्तरकालं विशेष(घेणार्थग्रहणा(ण) योग्यो भवेदिति । न तदपहनुवते, न च न श्रदधत तदर्थ सूत्र वा गुरव इति । सम्यग्दृष्टय एव गुरवः, सूत्रोक्तार्थश्रद्धाने सति शेषार्थसापेक्षेकदेशप्ररूपणात् , स्यानित्य इत्याद्यभिधायिस्याद्वादवादिवत् । जमालिप्रभृतिनिह्नवास्तु मिथ्यादृष्टय एव, सूत्रोक्तार्थाश्रद्धाने मिथ्याभिनिवेशिनः, तद्विपर्ययप्ररूपणात् , शिवभूत्यादिवत् ॥२७८०-८१॥
ते पुनरमी निगवाः सः स्वमतप्राहनिर्वृत्त नामान एकान्तन यप्रस्थानात, सप्तव च सिदान्तास्तैस्तदा प्ररूपिता इति-- बहुरत-पतेस-अव्यत्त-समुच्छ-दुभ-तिग-अवद्धियाणं च ।
एते सिं णिग्गमणं वोच्छामि अधागुपुवीए ।।५६१।।२७८२॥ बहुरत जमालिपभवा, जीवपदेसा य तीसगुत्तातो। अव्वत्तासाढातो, सामुच्छेताऽऽमित्तातो ॥५६२॥२७८३॥ गंगातो दो किरिया, छलुका तेरासियाण उप्पत्ती । थेरा य गोईमाहिल पुट्ठमयदं परूवेन्ति ॥५६३।२७८४॥
बहरत गाहा । बहुभिः समयैः क्रियापरिसमाप्तिः, क्रियापरिसमाप्तौ चेष्टा प्रयो. जनसिद्धिरिति प्रत्येकं समये कियाव्यपदेशाभावात् , क्रियमाणमेकसमये न किञ्चित् कृतं नाम, ततो बहुपु समयेषु रताः सक्ताः बहुरताः, बहुकालं वा रतं येषां ते बहुरताः य(ज)मालिप्रभवाः दीर्घकालद्रव्यार्थ[प्रसूति]प्ररूपिणः ।
तथा प्रदेशाः' इति पूर्वपर(द)लोपादुच्यते, यथा महावीरो वीरः, महासेनः सेन इति । जीवः प्रदेशो येषां ते जीवप्रदेशिकाः निवाः तिप्यगुप्तप्रभवाः अथवा जीवः प्रदेशो यस्य स जीवप्रदेशः, स नयो येषामस्ति “अत इनि ठनौ" पा० ५।२.११५] इति जीवप्रदेशिका उच्यन्ते ।
१ सामु है, मुन्थ त, मुन्छ। जे को हे हा । २ द्धिया चेव को हे दी हा म त । ३ सत्ते! जिहग खलु तिमि उ वद्धमाणस्स दी हा म । ४ जहाणु' को । ५ ता असमि हे । ६ गुट्ट म । ७ वेंति को, "विति हे दी हा म।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org