________________
५१४
विशेषावश्यक भाष्ये
[ नि० ५४१
तजनिता भविष्यति, सामान्यबुद्धित्वाद् द्रव्यादिष्विव । अथ ब्रूयात्- सामान्यविशेषेषु सामान्यविशेषाऽभावात्तत एव ज्ञानमिति, द्रव्यादिष्वप्येवं भविष्यति सामान्यविशेषवत् ॥ २६७२ ॥ तम्हा वत्थूणं चिय जो सरिसो पेज्जयो स सामण्णं । जो विसरिसो विसेसो स मेतोणत्यंतरं तत्तो || २६७३||
1
म्हात्थूणं गाहा । तस्मान्नैकान्तेनार्थान्तरभूतं निमित्तम्, न चानर्थान्तरभूतमेव । किं तर्हि ? वस्तुनः एवान्यानन्यभूतोऽयं सदृशपर्याय [:], तत् सामान्यम्, यस्तु विसदृशपर्यायः स विशेष इति परमार्थः । ननु च नैगमनयस्य संग्रहेणानन्तरत्वात् व्याघाते कृते परपक्षनिवर्त्तनं भवतु, स्वपक्षस्थापनं वा तदुभयमपि गिध्यादर्शनम्, किमिदमस्थाने स्याद्वादपरमार्थवचनमिति ? उच्यते - लाघवार्थमनन्तराभिधानं नयपर्यन्तेSवश्यम्, एतच्च संस्कारव्यवधानात् धारणप्रतिपत्तिमादध्यादिति ॥२६७३ || नैगमनयवक्तव्यतानन्तरं संग्रहनयः । तस्य लक्षणम् -
संग्रहणं संगिण्हति संगिज्झते व तेण जं भेता । वो संगहो ति संगहित' 'पिण्डितत्थं वयो जस्स || २६७४ ||
संगणमित्यादि । संग्रहणं संग्रह इति भावसाधनः संगृह्णातीति कर्तृसाधनः संगृह्यन्ते तेन भेदाः इहेति संग्रहः करणसाधनः संगृह्यन्त इति संग्रहः कर्मसाधनः संगृहीतपिण्डितार्थं 'वची' वचनं यस्य || २६७४ ||
अथ संगृहीत- पिण्डितयोः को # विशेष इति ? गाथा -
संगै हितमा गिहीतं संपिण्डितमेगजातिमाणीतं । संगहितमणुगमो वा वतिरेओ " पिण्डितं भणितं ॥ २६७५ ||
१०
५
संगहितमा गिद्दीतमित्यादि । 'सं' शब्द आभिमुख्ये । आभिमुख्येन गृहीतं सामान्यानुकूल्यम्, तदेव सामस्त्येन पिंण्डितम् 'एकजातिमानतिम्' सङ्गृहीतं च तत् संपिण्डितं च तदिति समानाधिकरणः समासः, स सङ्गृहीतपिण्डितोऽर्थो यस्य संग्रहवचनस्य तत् 'संगृहीतपिण्डितार्थम् ' समासत इति संक्षेपात् ब्रुवते सर्वविदः । अथवा संगृहीतमनुगमोऽन्वयः, पिण्डितं व्यतिरेकः । एतदुक्तं भवति - अन्वयव्यतिरेकाभ्यां यस्य वचः परमतभेदव्यतिरेकात् स्वमतसामान्यानुगमादिति ॥ २६७५ ॥
अथवा शतभेदत्वात् संग्रहस्य प्रकारान्तरैरभिधानमिति सर्वसामान्यसंग्रहात् -
१ 'ज्जवो को हे । २ समओ को है । मताण' जे । ३ नाधावनप्र - इति प्रतौ । ४ 'ज्झतं त । ५°हितं त । ६ पिंड कोहे | ७ हियं आगहियं को । ८ मागही हे त । ९ पिंडि को हे । १० पिंड को है ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org