________________
५१२ विशेषावश्यकभाष्ये
[नि०५४१एवमाऽऽकारकमुभयमतावलम्बित्वं साधौ नास्तीति साधनधर्मासिद्धो दृष्टान्तः । अथ ... यत् साधौ परस्परापेक्षद्रव्यार्थिक-पर्यायार्थिकमतं कथञ्चिद्वेदाभेदरूपम् , तदवलम्बित्वं नैगमनये नास्तीत्यपक्षधर्मता हेतोः । तस्माद् दुषणद्वयात् पूर्वपक्षप्रमाणं दुष्टमिति न सम्यदृष्टिगमः । किं तर्हि ? मिथ्यादृष्टिरेवेति विशेष्य पक्षः क्रियते, अत्यन्तभिन्नद्रव्यार्थिकपर्यायार्थिकमतावलम्बित्वात् , कणादवदिति ॥२६६५॥ ____ एतदृष्टान्तव्याख्यानार्थ गाथा - 'दोहि वि णएहि सत्यं' णीतमुलूएण तथ वि मिच्छत्तं । जं सविसयप्पधाणतणेण अण्णोण्ण णिरवेक्खा ॥२६६६।।
___ दोहि विगाहा । 'सामान्यम् विशेषः इति बुद्ध्यपेक्षम्" भवति [इति] सिद्वान्तः । ततश्च सामान्यमर्थान्तरभूतं विशेषात् , विशेषश्च सामान्यादर्थान्तर मिति न युज्यते वक्तु. मिति नैगमनय उपालन्यते उत्तरण संग्रहनयेन, “समनन्तरानुलोमाः पूर्वविरुद्धा निवृत. निरनुशयाः' इति लक्षणात् ।।२६६६॥
अनिष्टापादनप्रमाणमपि-विशेषोऽपि सामान्यमिति भवतु, सामान्यवुद्धिहेतुत्वात् । कथं सामान्यबुद्धि हेतु विशेषस्य ! इति चेत् -
जति सामण्णं सामण्णबुद्धि हेतु ति तो विसेसो त्ति । सामण्णमण्णसामण्णबुद्धिहेतु ति को भेदो ? ||२६६७।।
जति सामण सामष्णबुद्धिहेतु त्ति । गोत्वमश्वादिभ्यो व्यावर्त्तमानत्वाद् विशेषः । तदेव खण्ड-मुण्ड-शावय-बाहुलेयादिषु सामान्यबुद्धि हेतुरिति दृष्टम् । तथा मनुष्यत्वं गवादिव्यावृत्तेविशेषः ब्राह्मणादिष्वन्वयात् सामान्यबुद्धिहेतुः । तथा पुनः ब्राह्मणत्वं विशेषः, क्षत्रियादेविर्तमानत्वात्, माठर कौण्डिन्यादिप्वनुप्रवृत्तिबुद्धि हेतु. स्वात् सामान्यबुद्वि हेतुत्वं सापेक्षिकमिति सामान्यमेव । विशेषश्च सामान्यं चावश्यमभ्यु. पगन्तव्यम्, भवताऽपि स्वसिद्धान्ते प्रणयनादिति । एवं सामान्य-विशेषयोरभेद एवेति ॥२६६७॥
पुनरप्यभेदप्रतिपादनायाह -- जति जेण विसे सिज्जति स विसेसो तेण जं पि सामगं । तं पि विसेसोऽवस्सं सत्तातिविसेसयत्तातो ॥२६६८॥
जति गाहा । विशेष्यतेऽनेनेति विशेषः । एवं तर्हि सामान्यमपि विशेषत्वं प्राप्नोति, अन्यसामान्यविशेषत्वात् , अन्त्यविशेषवत् । सत्तासामान्य गोत्वं न भवति ।
१ दोहिं हे । एषा गाथा सन्मती (३. ४९) द्रष्टव्या । २ नएहिं को हे । ३ नोयं सत्थमु को हे त । ४ एतद्वचनं वैशेषिकसूत्रे प्रथमाध्याये द्वितीयाहिके समागतेन तृतीयसूत्रेण तुलनीयम् । ५ वि को हे त ।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org