________________
५०२ विशेषावश्यकभाष्ये
[नि० ५३६- अथ सर्वव्यापित्वप्रदर्शनार्थ लौकिकोदाहरणम् -
ख्वी घडो त्ति चूतो दुमो त्ति णीलुप्पलं ति जंगम्मि । जीवो सचेतणो ति य विकप्पणियमादयो सिद्धा ॥२६३१।।
रूबी घडो त्ति चूतो दुमो तीत्यादि । रूपी घटः-मूर्तो घट इत्यर्थः । उत्तरपदावधारणादुत्तरपदे नियमः-घटस्तावन्नियमादपी, रूपी पुनर्घटो वा स्यादघटो वा अनवधारणाद्विकल्पः । चतो द्रुमः इति एतद्विपर्ययेण पूर्वपदावधारणात् पूर्वपदनियमः । द्रुम एव चूत इति चुतो नियमाद् द्रुमः, द्रुमस्तु "चूतो वा स्यादन्यो वा अनवधारणादुत्तरपदे विकल्पः, नीलोत्पलमिति उभयार्थानवधारणादु. भयत्र विकल्पः-नीलमुत्पलं चानुत्पलं च, उत्पलमपि नीलं चाऽनीलं चेति । जीवः सचेतनः इत्यव्यभिचारात् उभयत्रावधारणादुभयत्र नियमः-जीव एव सचेतनः, सचेतनो जीव एवेति लोकेऽपि विकल्प-नियमादयः सिद्धाः । पूर्वत्र व्याहतमपरत्र व्याहतमुभयत्र व्याहतमिति गत्यागति लक्षणद्वारम् ॥२६३१॥
णाण त्ति विसेसो सो दव्य-क्खेत्त-काल-भावेहि । असमाणाणं णेयो समाणसंखाणमविसेसो ॥२६३२॥
णाण त्ति विसेसो इत्यादि । नानाभावो नानात्वम्-विशेषः-पृथक्वम् । स घ विशेषश्चतुर्दा---द्रव्य-क्षेत्र-काल-भावैः । द्रवति दूयते होर्विकारो द्रव्यं द्रव्यपरिणामार्पणात् प्रायशः पुद्गलद्रव्यम् , विचित्रपरिणामत्वात्, सिद्धान्ते बाहुल्येन व्यवहारसिद्धेः धर्माधर्माकाश-जीव-कालानां परिणामान्तरसमर्पणान्न तदन्तर्भाव:-तद्यथा-धर्माधर्माकाशानां निवासगतिस्थितिलक्षणपरिणामसमर्पणात् द्रव्यत्वे सत्यपि क्षेत्रव्यपदेशः । तेन द्रवणपरिणामस्य निवासगतिपरिणामस्य नानास्वादसमानत्यम् । ततो नानालक्षणम् । तथा कलनपरिणामान्तरसमर्पणात् कालः पृथग् द्रव्य-क्षेत्र-भावेभ्यः। तथा तद्भावभवनसमर्पणाज्जीवाः तदुपयोगो वा गुण-पर्याया वा पृथग् द्रव्य-क्षेत्र-काल-भावेभ्यः । तथा द्रव्यत्वेऽपि समाने क्षेत्रे कालत्वे भावे वा तुल्येऽपि संख्यानानात्वं लक्षणम् । समानसंख्यानां द्रव्याणां द्रव्यत्व-संख्याभ्यां समानत्वादविशेष इति नानात्वलक्षणाभावः ॥२६३२।।
तत्रोदाहरणगाथापरमाणु-दुअणुयाणं जध णाणत्तं तधावसेसाणं । असमाणाणं तध खेत्त-काल-भावप्पभेदाणं ॥२६३३॥
१ च लोयम्मि को हे त । २ भूतो-इति प्रतौ। ३ णाणिनि त । ४ भावम्मि त वहि को हे। ५ मन्तिरजी इति प्रतौ । ६ द्रव्यः क्षेत्र कालभा' इति प्रतौ । ७ धाविसे त ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org