SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ नि० ५३६ ] उपोद्घाते लक्षणद्वारम् । एव देवः इति पूर्वपदव्याघाते उत्तरावधारणं यत एव कारकाणां ततोऽन्यत्रावधारणमिति लक्षणात् । तथा अपव्याघाते देवो जीव एवेति पूर्वपदावधारणं पूर्वपदनियम इत्यर्थः । उत्तरपदं तु जीवशब्दः प्राणधारणोपलक्षिते संसारिणि तद्वियुक्ते च सिद्धे दृष्टः इति व्यभिचारित्वात् विकल्पः || २६२८ ॥ एवमेव - जीवति जीवो जीवो जीवति नियमो मतो विपय । देवो भव भव्वो देवो त्ति विकप्पसो दो वि ॥ २६२९ ॥ जीवो जीवते (ती) ति उत्तरपदावधारणम्, पूर्वपदव्यभिचारः । अतो विकल्पनियम* चेति भावना | यदि पुनर्जीवशब्दः क्रियाकारक - उत्पत्तिसमाश्रयणात् क्रियाशब्द उच्यते तदा उभयपदाव्यभिचारः । प्राणधारणयुक्त एवार्थी जीवः, न सिद्ध:, प्राणधारणाभावात् । तदा नियम एवोदाहरणम् । यो जीवति, स जीवति यश्च जीवः स जीवति नान्यः इत्युभयाव्याघातः । तथा "देवो भव्वो, भव्वो देवो त्ति विकप्पसो दो वि" देवः स्याद् भव्यः स्यादभव्य इति व्यभिचारः, भव्योऽपि स्याद्देवः स्याददेव इति व्यभिचार एवेत्युभयत्रापि व्याघात इत्युभयपदव्यभिचारः || २६२९|| अथास्यैव प्रपञ्चार्थमिदं व्याख्याप्रज्ञप्तिगदितोदाहरणं विवरणार्थं च'जीवो जीवो जीवो जीवो ति देंगे वि गम्मते नियमो । जीवो जधोवयोगो तधोत्रयोगो वि जीवो ति ॥ २६३०॥ जीव जीवो जीवो जीवो ति दुगे हि गम्मते नियमो इत्यादि । अत्रैको जीवशब्दः आत्मवाची रूढिशब्दः, द्वितीयो जीवशब्द: 'उपयोगलक्षणो जीवः' इति लक्ष्यलक्षणैक्या ुपयोगवचनः तदा भिन्नार्थत्वात् पदद्वयमेतत् समानश्रुति विशेषणविशेष्यभावेनोपात्तम् । अक्षाः पादाः, माषा इति यथा अन्ययैव पदे विशेषणविशेध्यत्वाभावात् विकल्प-नियमयोरभाव एव । तस्मात् पदद्वयेऽव्यस्मिन्नुभयाव्याघातःउभयपदावधारणादव्यभिचार इत्यर्थः । तमेव गाथापश्चार्धेन व्याचष्टे - 'जीवो जधोवयोगो धोवयोगो वि जीवो त्ति' । जीवो जीव एवेति पूर्वपदावधारणम्- यो जीवः आत्मा स जीवो जीवोपयोगस्वरूप इत्यर्थः । अथवा जीव एव जीवो इति उत्तरपदावधारणम्य उत्तरपदे नीवाख्य उपयोगः स जीवात्मैवेत्यर्थः । एते पूर्वपदोत्तरपदावधारणे सुखप्रबोधार्थ पृथक् पृथग्दर्शिते । युगपत्तूभयत्रैव कारश्रवणात् उभयपदावधारणं स्फुटम् जीव एव जीव एवेति एवं तावल्लोकोत्तरोदाहरणम् ॥ २६३०॥ " ५०१ १ व्याख्याप्रज्ञप्तौ षष्ठे शतके दशमे उद्देश के "जीवे ण भंते ! जीवे ? जीवे जीवे ?" इत्यादिरूपेण इयं चर्चा समागता । २ दुगविगपणे णि को । ३ य को हे त । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy