________________
૪૮૮ विशेषावश्यकभाष्ये
[नि० ५२२यद्यनन्ये सदा दिक्कालादयो द्रव्यगुणादयश्च । ततोऽयन्ताऽभेदादेकत्वाद् 'दिगियम्' 'कालोऽयम्' इति को विशेषः ? उच्यते-..
उवयारमेत्तभिण्णा ते चेव जघा तधा गुणादीया । तध कज्जं कारणतो भिण्णमभिण्णं च को दोसो ? ॥२५८३॥
उवयारमेत्तभिण्णा इत्यादि । उपचारो व्यवहारः । तेन संव्यवहारमात्रेण भिन्नास्तथा विवक्षितत्वात् दिकालादयो विशिष्टा भण्यन्ते । अन्यथाऽस्तित्वमात्रमेव सर्व द्रव्यार्थतो वस्तु । तथा द्रव्यगुणादयोऽपि चक्षुरादीन्द्रियशेपकरणा(ण)विशेषान्नानात्वं लभन्ते । अन्यथा द्रव्यमेव गुणा इति । तथैव यदि पटादिकं तु कारणात् भिन्नमभिन्नं च भवेत्ततः को दोष इति तुल्यतापादनात् पूर्वदोषपरिहार इति । उक्तं द्विविधत्वं कारणस्य ॥२५८३॥
इदानीं षविधत्वं कारणस्योच्यत इति गाथाकारणमधवा छद्धा तत्थ सतंतो ति कारणं कत्ता । फज्जप्पैसाधकतमं करणम्मी पिण्डदण्डैादी ॥२५८४॥
कारणं । करोतीति कारणं कर्तरि व्युत्पत्तेः पडपि कारकाणि कारणं कार्यस्य, स्वेन स्वेन व्यापारेणावश्यमुपयुज्यमानत्वात् , सर्वेषां च स्वव्यापारे स्वतन्त्रत्वादविनाभावित्वम् , यथाविवक्षं च तस्य तस्य कारकस्याभीष्टव्यपदेशात् । यथैकस्य धनुषः कारकत्रयव्यपदेशः। दृढत्व-स्वाकारत्व-बद्धत्व-गुणवत्त्वादिभिः कारणैः स्वातन्त्र्यात् धनुरि(रे)व विध्यतीति कर्तृवं धनुषः । तथा तस्मादेव तद्विधगुणाद्धनुषोऽपादानात् बाणम् , निष्कृतेन बाणेन करणभूतेन देवदत्तो विध्यति । अथवा तस्य देवदत्तस्य कर्तुः सर्वमेव संबाणं धनुः । धनुषा विध्यतीति । एवमन्यान्यपि योज्यानि इति । तत्र कार्ये निर्वत्यै स्वतन्त्रः कतैति स्वातन्त्र्येणोपयोगात् कर्ता कारणं कार्यस्य, तेन, विना तस्याभावादिति । तथा साधकतमं करणमिति अतिशय साधनयोगात् कार्यप्रसाधकतमं सन्निपत्योपकारित्वात् करणं मृत्पिण्डदण्डादि ॥२५८४॥
__ अथ कर्मकारणम्-क्रियते निर्वय॑ते तदिति कर्म कार्य सत् कथं कारणमिति गाथा
कम्म किरिया कारणमिह णिच्चेही जतो ण साधेति । अधवा करणं कुम्भो स कारणं बुद्धिहेतु त्ति ॥२५८५।।
१ पटादितंतुकारणभिन्नमभिन्नत्व च-इति प्रतौ । २ जस्स साहगत को ज्जपसाहगत हे। ३ गम्मि उ को हे त । ४ पिंडदं को। 'डाइ त, पिंडदंडाई हे । ५ सपाणं को। ६ य वचनयों को । ७ चिट्ठो को हे । ८ कम्मं कुम्भो को हे ।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org