________________
नि० ५२२]
उपोद्घाते कारणनिक्षेपः । जध तंतूणं धम्मा संजोगा तध पडो वि सगुणो व्य । समवायादित्तणतो दबस्स गुणादयो चे ॥२५८१॥
जध तंतूणं गाहा । पटोऽपि तन्तूनां धर्म एव, तेपु समवायित्वात् , तन्तुसंयोगवत् , युक्ततादिगुणवद् वा।
अत्राशङ्कयते परवचनम् -धर्मत्वापादनेऽपि नैवानन्यत्वं सेत्स्यति, किन्तु इष्ट. विघातकृद्धर्मविशिष्टविपरीतसाधनो विरुद्धोऽयं समवायित्वादिति । यथैव तन्तुसंयोगानां शुक्लादीनां च धर्मत्वात् पटस्य तन्तुधर्मत्वमापादयति, एवमनन्यविपर्य येणान्यत्वेन व्याप्तत्वादन्यत्वविशिष्टधर्मत्वमप्यापादयतीति नैवानन्यत्वमिष्टं सिद्धमिति । उच्यतेनायं विरुद्धः । कथमिति ? न्यायलक्षणात् विरुद्धे सति साधने । इह च विरुद्धा. भिधायिप्रमाणस्य अन्यत्वविशिष्टधर्मत्वापादनस्य तन्तुसंयोग-वस्तु-शुक्रत्वादिदृष्टान्तस्यानुभवसिद्धत्वात् , अन्यतरसाध्यविकलदृष्टान्तयोगाद्विरुद्धो नै सः । न ह्याहतानां तन्तुसंयोगाः शुक्लतादयो वा गुणास्तन्तुभ्योऽन्ये । अत्राप्यन्याऽनन्यत्वोभयधर्मविषयस्यावादावलम्बनात् । दर्शयत्याचार्यः-"दबस्स गुणादयो चे" द्रव्यस्य तन्त्वादेगुणादयः । आदिग्रहणात् संयोगकार्यद्रव्यसामान्यविशेषधर्माः सम्बव्यन्ते । तेऽप्यन्यानन्यरूपा इति नैकान्तवादः ॥२५८१॥
अथ कश्चिदत्राशङ्केत काणादः-द्रव्यादन्ये गुणा:-बुद्धयभिधानलक्षणादिभिन्नत्वात् , गवाश्ववत् । एतदनेकान्तिकत्वप्रख्यापनाय, अनुमानविरुद्धप्रतिज्ञादोषकथनाय वा गाहा
अभिधाणबुद्धिलक्खण भिण्णा वि जघा सदस्थतोऽणण्णे । दिक्कालादिविसेसा तध दव्वातो गुणातीया ॥२५८२॥
__ अभिधाण. अभिधानबुद्धिलक्षणभिन्नत्वं हि विपक्षे अनन्यत्वे सदादि(दि)कालादिषु दृष्टमित्यनैकान्तिकः । अथवाऽनुमानमेवेदम्-पृथक् स्वतन्त्रा द्रव्यादनन्ये गुणाः, अभिधानबुद्धिलक्षणभिन्नत्वे सति परिणामित्वात् , विशेषणविशेष्यरूपत्वात् , सदादि(दि)कालादय इव । सदर्थः सत्ताशब्दवाच्यः सामान्यपरिणामः । दिक्कालाकाशादयस्तस्य विशेषाः पर्यायाः इत्यर्थः । यदि दिक्कालादयः सदर्थादन्ये, असन्तस्तहि खरविषाणवत् । अथाऽनन्ये, सदर्थमात्रम्, न नाम केचिदिकालादयस्तद्वयतिरिक्ताः । तम्मान्नैकान्तेनान्यत्वमिति । सदर्थश्च सामान्यपर्यायः दिक्कालादयो विशेषपर्यायाः । एवं द्रव्य-गुणादयोऽप्यन्यानन्यत्वसामान्यविशेषरूपेण द्रष्टव्याः ॥२५८२॥
१ गुणव्व को, गुणा व्व हे । २ चैव त । ३ तवशिष्टं - इति प्रतौ । ५ द्धो स सः--इति प्रतौ । ५ वादय इति प्रतो । ६ मारमे-इति प्रती ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org