________________
नि० ४८३) निर्वाणसिद्धिः ।
४५७ ___ अथ पक्षत्रयेऽप्यक्षरव्याख्यानादभ्युपगमविरोधस्थापनम्वेतपताण तमत्थं ण सुट्ट जाणसि इमाण तं सुणसु । असरीरव्यवदेसो अधणो व्व सतो णिसेधातो ॥२४७२॥
वेतपताण तमत्थं ण सुटु जाणसि । हे आयुष्मन् ! कौण्डिन्य ! प्रभास ! वेर्दैपदानामेषां अर्थ न सुष्टु जानासि त्वम् , अधुनैतेषामर्थं शृणु। ने]ति निपातः प्रतिषेधार्थः । ह-वैनिपातद्वयं हिशब्दार्थे हेतौ द्रष्टव्यम्-यस्मादित्यर्थः । सह शरीरेण सशरीरस्तस्य देहवतः प्रियमिष्टं सुखमित्यर्थः । तद्विपरीतमप्रियं दुःखमित्यर्थः । तयोः प्रियाप्रिययोरपहतिरुपघातो विनाश इत्यर्थः । शरीरं हि प्रियाप्रिययोराधारस्तस्मिन् सति ते प्रियाप्रिये आधेये अवश्यमेव पर्यायेण भवत इति कथं तयोरभावः ? प्रियाप्रिययोरभावो नास्ति सशरीरस्येति । वावशब्दो निपातस्तस्मादर्थे । तस्मादशरीरं सन्तं विद्यमानं देहरहितममूर्त आत्मानं प्रियाप्रिये न स्पृशतः । तस्य प्रियाप्रियाभ्यां योगो नास्तीति । एवमशरीरव्यपदेशोऽस्य सत एव शरीरवियोगावस्थानव्याख्यानात् नाभावरूपप्रकाशकः । अत्र प्रमाणम्-अशरीर इति व्यपदिश्यमानः सन् पदार्थप्रतिषेधसम्बन्धित्वात् , अधनवत् । ततश्चाशरीरं सन्तं विद्यमानं प्रियाप्रिये न स्पृशत इति मोक्षावस्थायां सत्पदार्थवादभावं मोक्षं ब्रुवतो निःसुखं वा, तदवस्थ एवाभ्युपगमविरोध इति ॥२४७२॥
लौकिकशब्दार्थव्यवहाराच्च सम्यग् पदार्थ एवासौ । नजिव युक्तमन्यसदृशाधिकरणे तथाह्यर्थः' इति परिभाषार्थ प्रकाशयन्नाह
णणिसेधतो य अण्णम्मि तविधे चेव पच्चयो जेण । तेणासरीरगहणे जुत्तो जीवो ण खरसिंगं ॥२४७३॥
णणिसेधतो येत्यादि । अ-मा-नो-नाः प्रतिषेधार्था इति बहुत्वात् प्रतिषेधवाचिनां सम्भवव्यभिचारयोर्विशेषणविशेष्यसमासः । नश्वासौ निषेधश्च स इति ननिषेधस्तस्मात् 'ननिषेधात्', 'अन्यस्मिंस्तद्विध एव' सत्पदार्थे 'प्रत्ययो' 'येन', 'तेन' कारणेन 'अशरीरग्रहणे प्रतिषिध्यमानशरीरतुल्येऽर्थे जीवे संप्रत्ययो भवति, न खरशङ्गेऽतुल्ये अभावे इति ॥२४७३॥
इतश्च कारणात् जं च व[१६३-प्र०संतं तं" संतमाह वासदतो सदेई पि । ण फुसेज्न वीतरागं जोगिणमिटेतरविसेसा ॥२४७४॥
१ य अन्थं को हे । २ जाणासि को । ३ ताण को ४ °सदेवप इति प्रतौ । ५ °वस्थानाव्याख्या - इति प्रतौ। ६ सह पदा-इति प्रतौ । ७ जेणं को। ८ 'रग्ग' हे । ९ जीवे जे । १० व हे। ११ तं संतं तथाह को त । सतं तमाह हे। १२ 'सेसो जे।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org