________________
४५४
विशेषावश्यकभाष्ये
[नि० ४८३विसयसुहं दुक्खं गाहा । विषयसुखं संसारानुबन्धि दुःखमेव, दुःखप्रतीकारत्वात्, अशोरोगप्रतीकारवदेहछेदवत् । नन्वेवं सुखशब्देस्तत्रानर्थकः प्रयुज्यते । सत्यम्, अनर्थकः, परमार्थसुखं प्राप्य तत् पुनः सुखमुपचारात्, सिंहवत् । न चोपचारः परमार्थमन्तरेण भवतीति उच्यते-परमार्थसुखं सत्पदार्थः, कचिदुपचर्यमाणत्वात्, सिंहवत् ॥२४६१॥
तम्हा जंमुत्तमुहं तं तच्चं दक्खसंखएऽवस्सं । मुणिणोऽणावाधस्स व णिप्पडिकारप्पसूतीतो ॥२४६२॥
तम्हा जं मुत्तमुह इत्यादि । मुक्तसुखं तत्त्वं परमार्थः, निप्प्रतीकारप्रसूतिस्वात् परित्यक्तसर्वलोकयात्रावृत्तान्ता(तानाम् ,) निःसङ्गयतिसुखवत् । उक्तं च
"निर्जितमदमदनानां वाक्कायमनोविकाररहितानाम् । विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम् ॥" [प्रशम० २३८] २४६२॥
अथवान्यथा परमार्थसुखस्वरूपत्वमात्मन आरयायतेजधु वा णाणमयोऽयं जीवो णाणोवघाति चावरणं । करणमणुग्गहकारि सव्वावरणक्खए सुद्धी ॥२४६३॥ तध सोक्खमयो जीवो पावं तस्सोवघातयं णेयं ।। पुण्णमणुग्गहकारि सोक्खं सव्यवखए सयलं ।।२४६४॥
जध वा णाणमयोऽयं जीवो इत्यादि । स्वाभाविक गुणोऽयं जीवस्य मुक्तसुखम्, स्वप्रतिबन्धकाविनाभाव्यशुभकर्मोदये उपहन्यमानत्वात् । तथा स्वप्रतिबन्धका विनाभावि देवगत्यादि, शुभकर्मोदयेऽनुगृह्यमाणत्वात् , स्वप्रतिबन्धकसर्वक्षये चात्यन्तशुद्धिपरिपूर्णत्वात् , ज्ञानगुणवत् । यथा ज्ञानावरणोदये सूक्ष्मनिगोदापर्याप्तावस्थासु प्रथमसमये
एकेन्द्रियजात्याद्यविनाभाव्यशुभकर्मसु च सत्स्वत्यन्तमुपघातः, तस्यैव च देवगत्याद्यविनाभाविशुभकमोदये चक्षुरादिकरणैरनुग्रहोऽत्यन्तमनुत्तरौपपातिकेषु, सर्वप्रतिबन्धक्षये चात्यन्तशुद्धे सकलज्ञेयप्रकाशनात् परिपूर्णत्वम् । तच्च ज्ञानमात्मनः स्वाभाविको गुणः। एवं मुक्तसुखमत्यन्तानाबाधलक्षणं स्वप्रतिबन्धकोदये असāद्याशुभपुरःसरनरकगत्यादिकोदयेऽत्यन्तमुपहन्यतेऽधःसप्तमीनारकेपु, तदेव सवेद्यपुरःसरशुभगत्याद्यविनाभाविकमोंदयेऽनुगृह्यतेऽनुत्तरोप(पातिके पु, स्वप्रतिबन्धकाभावाऽ] विनाभाविमनुजगत्यादिसर्वकर्मक्षये चात्यन्तशुद्धेरपरिमाणसौख्यत्वात् परिपूर्णम् । यत आगम एवमुक्तम् "सुरगणसुहं समत्तं सम्वद्धापिण्डियं अणंतगुणं" इत्यादि ॥२४६३-६४॥
१ °ब्दसूत्रा इति प्रतौ । २ मुत्ति जे । ३ तत्थं त । ४ अह को । ५ कारी को ६ सिद्धी त । ७ घाइयं को हे त । ८ कादिना इति प्रतौ । ५ एकेत्तिय' इति प्रतौ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org