________________
विशेषावश्यकभाष्ये
[नि० ४७५
"समास्वतुल्यं विपमासु तुल्यं सतीप्वसच्चाप्यसतीषु सच्च । फलं क्रियास्वित्यथ यन्निमित्तं तदेहिनां सोऽस्ति तु कोऽपि धर्मः ॥१॥"
अतः क्रियाणां कारण वात् कर्मणः कार्यस्यानुमानम् , अथ कार्यानुभेयतादेहादीनां च कार्य भावात् कर्मणः कारणस्यानुमानम् । देहादेः कार्यस्य शुक्रशोगितादिदृष्ट कारणसमवायेऽप्यसम्भवो दृष्टः इत्यदृष्टमचक्षुर्माह्य किमपि कारणमस्तीति प्रति जानोमहे कारणत्वात् मृद्दण्डचक्रसूत्रादिसमेतसमर्थकुम्भकारान्यघटस्येव प्रयत्नः । उक्तं च
"इह दृष्टहेत्वसम्भविकार्यविशेषात् कुलालयत्न इव । हेत्वन्तरमनुमेयं तत् कर्भ शुभाशुभं कर्तुः ॥१॥"
अतः कार्यानुमेयत्वादपि प्रतिपद्यस्व कर्म । अपि च त्वमपि प्रतिपद्यस्व कर्म अग्निभूतिवत् ॥२३७३-७४॥
तं चिय देहादीणं किरियाणं पि य सुभासुभत्तातो ।
पडिवज्ज पुण्णपावं सभावतो भिण्णजातीयं ॥२३७५॥
तं चिय गाहा । देहादीनां कार्याणां शुभाशुभत्वात्, क्रियाणामपि च कारणानां शुभाशुभत्वात् , कार्यानुरूपकारणतया कारणानुरूपकार्यतया च स्वभावभिन्नजातीयं द्विविधं पुण्यपापाख्यं कर्म प्रतिपद्यस्व ॥२३७५।।
तथा चैतदर्थमुपपत्तिगाथा---
मुहदुक्खाणं कारणमणुरूवं कज्जभावतोऽवस्सं । परमाणवो घडस्स व कारणमिद पुण्णपावाई ॥२३७६॥
मुहदुक्खाणं कारण मित्यादि । सुखदुःखयोः भिन्नजातीयकार्ययोः स्वानुरूपं कारणमवश्यं भावि, कार्यत्वात्, पार्थिवघटस्य पार्थिवपरमाणुवत् । ते च द्वे कार्यानुरूपे कारणे पुण्यपापे इति सिद्धम् ।।२३७६।।
सुहदुक्खकारणं जति कम्मं कज्जस्स तदणुरुवं च । पत्तमरूवेत्तं पि हु अध रूवि गाणुरुवं तो ॥२३७७॥
सुहदुक्खकारणं जति कम्मं इत्यादि । आत्मपरिणामत्वात् सुखदुःखयो. रमूर्तत्वम् , कार्यानुरूपं कारणमिति सुखदुःखयोः कारणस्य कर्मणः प्राप्तम् , अमूर्तयोः कारणत्वादात्मवत् । अथ रूपिमूर्तकर्माण्यतः सुखदुःखयोः कारणं न भवति, अननुरूपत्वात् , अमूर्तत्वाद्वा, घटवत् ॥२३७७।।
१ रूवं तं पि को हे त ! २ रूवं त । ३ मुहदुक्स्वाणं जइ कम्म-इति प्रतो ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org