SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ४२८ विशेषावश्यकभाष्ये [नि० ४७५अन्येषां पुनर्मतेन मन्यसे--पापमेवैकं पदार्थः, तस्य परमप्रकर्षान्नारकः । तस्यैव किञ्चित् किञ्चिदपकर्षात् तिर्यग्मनुष्यदेवाः । सर्वापचये मोक्ष इति । एवं पुण्यमेव पापम् , पापमेव पुण्यमिति सिद्धान्तद्वयम् । ____ अथवान्यः सिद्धान्तः-साधारणमेतदुभयम् , उभयानुविद स्वभावत्वात् , सुखदुःखानुभाविजीवलोकदर्शनात् कार्यानुरूपकारणसिद्धेः पुण्यमपुण्यानुविद्वस्वरूपमिति । यतोऽत्य न्तसुखी न कश्चित् संसारी, न चात्यन्तदुःखितः। एवं प्रकर्षापकर्षभेदात् सुखदुःखान्विता एव संसारिण उपलक्ष्यन्त इति साधारणपुण्यपापवादः केषाञ्चित् सिद्धान्तः । अथवा पुण्यमिति शुभस्य कारणम्, अन्यदेव पापमिति च पदार्थान्तरमेवाशुभफलस्य कारणमिति प्रविविक्त कार्यानुमे यमुभयं विविक्तस्वरूपमेवेत्युभ या स्तित्ववादः । ___ अथ चोभयमपि पुण्यं पापं वा शुभाशुभफलं कर्म कम्प्येत, तस्याचेतनेष्वपि घटादिष्वेककुम्भकार कमृत्तिका चक्रायपकरणेकपाकनिष्पन्नत्वसामान्ये कश्चिद् घटः क्षीरघृतमध्वादिभाजनं प्रशस्तवारिपूर्णविकचपैमापिधानराज्याभिषेककलशश्च भवति, कश्चित् पुनरशुचिमद्यादिभाजनं शोकाश्रुवारिधारापूर्णखण्डमल्लकापिधानश्मशानकलशश्च भवतीति विनापि पुण्यपापकर्मसम्बन्धाच्छुभाशुभफलप्राप्तेश्चेतनेष्वपि शुभाशुभफलप्राप्तिरकर्मकैव भविष्यतीति किं पुण्यपापपरिकल्पनया युक्तिवियुक्तया, सर्वथा स्वभावकृत एवायं विचित्रशुभाशुभफलपरिणामो भवप्रपञ्च इति केषाञ्चित् सिद्धान्तः । तथा चाहुः -- "केनाञ्जितानि नयनानि मृगाङ्गनानां कोऽलङ्करोति रुचिराङ्गाहान्मयूरान् । कश्चोत्पले पु दलसंनिचयं करोति को वा दधाति विनय कुलजेषु पुंसु" । एवमचलस्य गणधरस्य नामगोत्रामन्त्रणपूर्वकं हृदयस्थार्थसूचकं मण्णसिगाहाकृतं सूत्रमात्रेण ।।२३६०-६३।। अथेदानी भाष्यगाथाभिर्विवरणं क्रमश उद्घट्टितसिद्धान्तानां क्रियते । पुण्णुक्क रिसे सुभता तरतमजोगाकरिसतो हाणी । तस्से खए मोक्खो पच्छाहारोवमाणातो ॥२३६४।। पुण्णुक्करिसे सुभता इत्यादि । यत्तदादावुल्लिङ्गितं पुण्यमेव पदार्थः, न तत् प्रतिपक्षः पापं नामास्ति; ननु च पुण्यस्य शुभमिति, अशुभफलोपलव्धेः पापास्तित्वमित्याशना(का)यामिदमुच्यते यत् परं प्रकृष्टं शुभमेतत् पुण्योत्कर्षस्य कार्य, यत् पुनस्तस्मात् १ 'पद्माभिधाभिधानरा इति 'प्रती। : 'रिस्से है। : 'वगरि' को हे । ५ 'स्सेय जे। ५ पत्था को हे। For Personal and Private Use Only Jain Educationa International www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy