________________
४१४ विशेषावश्यकभाष्ये
नि० ४६७ते पव्वइते सोतुं । आभट्ठो य। किम्मण्णे अत्यि देवो । तं मण्णसि णेर- . इया । सच्छन्दचारिणो पुण । गाहा । हे मौर्य पुत्र ! आयुष्मन् ! काश्यप ! त्वं मन्यसे नारकाः संक्लिष्टासुरपरमाधार्मिकायत्ततया कर्मवशतया [च] परतन्त्रत्वात्, स्वयं च दुःखसंतप्तत्वात् इहागन्तुमशक्ताः, अस्माकमप्यनेन शरीरेण तत्र गंतुं कर्मवशतयैवाशक्तत्वात् प्रत्यक्षीकरणोपायाऽसम्भवादागमगम्या एव श्रुतिस्मृतिग्रन्थेषु श्रूयमाणाः श्रद्धेयाः भवन्तु, ये पुनरमो देवाः, ते स्वच्छन्दचारिणः कामरूपाः दिव्यप्रभावाश्च किमिति दर्शनविषयं नोपयान्ति-किमिह नागच्छन्तीत्यभिप्रायः । अवश्यं न सन्ति, येनास्मादृशानां प्रत्यक्षा न भवन्ति । अतो न सन्ति देवाः, अस्मदाद्यप्रत्यक्षत्वात् खरविषाणवत् । श्रूयन्ते च श्रुत्यादिषु । तत आगमप्रामाण्यादनुमानगम्यवाद्वा परमाण्वादिवत् कि सन्तीति एवं भवतो देवेषु संशयः । ॥२३१९-२३२३॥
मा कुरु संशयम् । अथादृष्टाश्रुतनामंगोत्राभिभाषण-हृदयस्वार्थप्रकटीकरणविस्मापनानन्तरं देवाभावप्रतिपादक हेतोरसिद्धतोद्भावना[/] प्रत्यक्षप्रमाणसिद्धतां प्रकाशयन् भगवानाह
मा कुरु संसयमेते 'मुद्रमणुयादिभिण्णजातीए । पेच्छसु पच्चक्खं चिय चतुविधे देवसंघाते ॥२३२४।।
मा गाहा । मा काः संशयं देवसद्भावं प्रति संशयबीजहेतोरपक्षधर्मत्वात्, हेतुहेत्वाभासानां प्रायः प्रत्यक्षधर्मत्वात् ! अस्मदाद्यप्रत्यक्षत्वं च देवानां धर्मों न भवति, यतः सम्प्रत्येव ममाग्रतश्चक्षुष्प्रत्यक्षसिद्धान् एतान् सुदूरमनुजादिभिन्नजातीयान्'-मनुजा(ज,तिर्यग्नारकाः, मनुजादयः, मनुजादिभ्यो भिन्नजातीया मनुजादिभिन्न जातीयाः सुदृरेण मनुजादिभिन्नजातीयानेतान् सुदूरमनुजादिभिन्नजातीयान् पश्य आयुष्मन् ! मौर्यपुत्र ! काश्यप : प्रत्यक्षमेव मुदितांश्चतुर्विधानापि 'देवसंघातान्' भवनपतिव्यन्तरज्योतिष्कवैमानिकान् । तवाप्येते प्रत्यक्षा इति असिद्ध हेतुत्वम् । ततश्चानैकान्तिकाभावः ॥२३२४॥
अथ मन्यसे सम्प्रत्येव मम चक्षुर्विषयमापन्नाः, पूर्वकालं तु नैवमिति तदनी संशयो युक्तरूप आसीदिति तन्निराकरणायापि भगवानाह
पुव्वं पि ण संदेहो जुत्तो जं जोतिसा सपच्चक्खं । दीसंति तकता वि य उवधाताणुग्गहा जगतो ॥२३२५।। १ मगात्र-इति प्रतौ। २ ते दूरं म जे ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org