________________
३९० विशेषावश्यकभाष्ये
[नि० ४५५जीहीर्षया वा पृथक् प्रयोगस्तद्यथा विद्यमानभाजना पृथिवी, मूर्तिमयत्वात्तोयवत् , तथा पयस्तेजोवत्, तेजो वायुवत् , वायुः पृथिवीवत् ॥२२०५॥
एवं पच्चक्खादिप्पमाणसिद्धाइं सोम्मै ! पडिवज्ज । जीवसरीराधारोवयोगधम्माई भूताई ॥२२०६॥
एवं गाहा । एवं प्रत्यक्षादिप्रमाणेभ्यो भूतानि सन्तीति प्रतिपद्यस्व । जीवशरीराधारोपयोगवृत्तीनि चामूनि ॥२२०६॥
किध संग्जीवाइं मती तल्लिगातोऽणिलावसाणाई । 'वोमं विमुत्तिभावादाधारो चेव ण सजीवं ॥२२०७॥
किध गाहा । स्यान् मतिः--कथं पुनर्जीवशरीराणीमानि ? वाद्येन्तानि, जीवलिङ्गोपलब्धेः, आकाशं त्वाधारदानस्वभावमेव, न जीवशरीरममूर्त्तत्वात् ।।२२०७॥
जम्मजराजीवणमरणरोहणाहारदोहलामयतो । रोगतिगिच्छातीहि य णारि व्व सचेतणा तरवो ॥२२०८।।
जम्म० गाहा । सात्मका वनस्पतयः, जन्मजराजीवनमरणसद्भावात्, स्त्रीवत् । आह-नन्वयमनैकान्तिको विपक्षेऽपि दर्शनात् , तद्यथा-जातं दधि, जीणं वासः, सञ्जीवितं विषम्, मृतं कुसुम्भकमित्यादि । उच्यते, न, वनस्पतो समस्तलिङ्गोपलब्धेः, दध्यादावसमस्तदर्शनादुपचारः । इतश्च-सात्मका वनस्पतयः, क्षतसंरोहणात्, आहारोपादानात, दोहृदसद्भावात्. आमयसद्भावात् , तथा रोगचिकित्सासद्भावात् । दौहदादौ संभविनः कूष्माण्डादीन् विशिष्य पक्षः कर्त्तव्यः ॥२२०८॥ छिक्कँप्परोइयाछिक्कमंत्तसंकोयतो कुलिंगो व्व । आसयसंचारातो वियत्त ! वल्लीविताणाई ॥२२०९॥
छिक्क० गाहा । सात्मकाः स्पृष्टप्ररोहिंकादयः, स्पृष्टाऽऽकुञ्चनात् कीटादिवत् । तथा, आश्रयाभिसंसर्पणात् "वल्यादयः ।।२२०९।।
सम्मादयो य सावप्पबोधसंकोयणादितोऽभिमैया । बउलातओ य सदातिविसयकोलोवलंभातो ।।२२१०॥
सम्मा० गाहा । सात्मकाः शम्यादयः, स्वापप्रबोधसङ्कोचादिसद्भावात् । शब्दादिविषयोपलम्भात् बकुलाशोकादयः, देवदत्तवत् ।।२२१०॥
१ क्खाइपमा हे । २ सोम को । ३ सजी हे। साजीवाइ त । ५ वाम त । ५ वाद्यन्नानि--इति प्रती। ६ संभावतः-इति प्रती । ७ ककपरों हे। ८ 'मित्त त । 'मेत्त' को हे। ९ प्ररोदि को हे । १० बल्या' इति प्रतौ । ११ मतो जे । १२ काला जे ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org