________________
३८७
नि० ४५५]
शून्यवादनिषेधः । सव्यं सामग्गिमयं णेगंतोऽयं जतोऽणुरपदेसो । अध सो वि सम्पदेसो जत्थावत्या स परमाणू ॥२१९२।।
सव् गाहा । न चेह सर्वमेव सामग्रीमयमित्येकान्तो यतोऽणुरप्रदेशः कार्यानुमेयोऽस्ति । स्यान्मतिः-असावपि प्रदेशवान् , एवं तत्प्रदेशोऽणुभविष्यति । तत्प्रदेशवत्त्वप्रतिपत्तावपि च तत्प्रदेशं इत्येवं यत्रावस्था भविष्यति स परमाणुः ।।२१९२॥
दीसति सामग्गिमयं ण याणवो सन्ति णणु विरुद्धमिदं । किं वागणमभावे णिप्फण्णमिणं खपुप्फेहिं ॥२१९३॥
दीसति गाहा । उत सर्वं च सामग्रीमयमुपलभ्यते न चाणवो विद्यन्त इति । नन्वेतद्विरुद्धमुच्यते सर्वाऽनृतवचनप्रतिपत्तिवत् । परमाण्वभावे वा किमिह खपुष्पसामप्रीमयमिदमाभाव्यते ? तस्माद्यत्सामग्रीमयमिदं ते परमाणव इति ।।२१९३॥
देसस्साराभागो घेप्पति ण ये सोत्थि णणु विरुद्धमिणं । सव्वाभावे वे ण सो घेप्पति किं खरविमाणस्स ॥२१९४॥
देसस्सा० गाहा । यच्चापदिश्यते दृश्यस्याराद्भागो गृह्यते न चासावस्तीति । नन्वेतद्विरुद्धम् , असत्वे वा किं न खरविषाणस्यासावुपलभ्यते ? दृश्यस्योपलभ्यत इति कस्ते विशेषहेतुः ? समताविपर्ययापत्तिद्वयं च कस्ते निपेत्स्यति ! ॥२१९४||
परभागादरिसणतो णाराभागो [१४४-०]वि किमणुमाणं ते । आराभागग्गहणे किं व ण परभागसंसिद्वा ॥२१९५।। पर० गाहा । परभागमात्रादर्शनाचाराद्भागोऽपि नास्तीत्यत्र-किमनुमानं भवतः ! युक्तं तावदाराद्भागग्रहणात् परभागास्तित्वानुमानम् , न परभागादर्शनादाराद्भागनिवृत्तिः । कथम् ? इह दृश्यस्य परभागोऽस्ति भागत्वादाराद्भागवत् । न पुनः परभागाऽदर्शनादाराद्भागाऽभावानुमानमस्ति, प्रत्यक्षत्वात् । स्यात्-परभागोऽस्ति भागत्वादित्ययमसिद्धः । तच्च न, स्ववचनविरोधात् । ननु भवतैवोक्तं "यावद् दृश्यं परस्तावद्भागः स च न दृश्यते” इति, यच्चापदिष्टम् - "आराद्भागस्याप्यन्यः खल्वाराद्भाग इति सर्वारातीयाराद्भागपरिकल्पनम् , तच्च परभागासत्त्वेऽनर्थकम् ।।२१९५।।
सव्वाभावे व कतो आरापरमज्झभागणाणत्तं । अध परमतीय भण्णति सपरमतिविसेसणं कत्तो ॥२१९६।।
१ णणु सों त । २ सो त्ति त हे को । ३ न य त । १ मितं जे । ५ वि त को हे । ६ ति हे त । ७ वि हे त । ८ तीए को त हे।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org