________________
३८३
नि० ४५५]
शून्यवादनिषेधः। घटः । किञ्चिदुभयतो .यथा मातापितृभ्यां स्वकर्मक्रियानुष्टाता च पुरुषः । किञ्चिन्नित्यसिद्धमेव यथाकाशं - इत्येतद्व्यहारनयापेक्षया । निश्चयतस्तु बाह्यनिमित्तमात्राश्रयात सर्व स्वत एव सिद्धयति, यतो न बाह्य कारणभावेऽपि खरविषाणाधभाव. संसिद्धिस्ति । उभयनयापेक्षा चात्र सम्यक्त्वमिति ॥२१७३॥
अत्थित्तेघडेकाणेगता य पज्जायमेतचिंतेयं । अत्थि घडे पडिवण्णे इधरा सा कि ण खरसिंगे ॥२१७४॥
अत्थि० गाहा । यदप्युक्तम्-अस्ति-घटयोरेकत्वे चान्यत्वे चायुक्तिरित्यस्तिघटप्रतिपत्तावेकत्वान्यत्वादिपर्यायमात्रचिन्तेयमारूंढा । अन्यथा हि किं न खरविषाणवन्ध्यापुत्रयोरेकत्वान्यत्वायुक्तिचिन्तेयं भवतः ॥२१७४।।
घडमुण्णअण्णताए वि मुण्णता का घडाधिया सोम्म । पगते घडओ च्चिय ण मुण्णता णाम घडधम्मो ॥२१७५।।
घड० गाहा । यथा चास्ति-घटयोंरकत्वान्यत्वायुक्ता(युक्ति)रनुचित्यत तथा घटशून्यतयोरप्येकत्वान्यत्वं वाभ्युपगम्य-यद्यन्यत्वमतो घटमात्रमेव हि तत् न शून्यता नामेति काचित्, एकत्वाभ्युपगमेऽपि हि घटमात्रमेव । तन्न शून्यता नाम घटधर्मः कश्चिदस्ति, सर्वप्रमाणानुपलब्धेः खरविषाणवत् ॥२१७५॥ विण्णाणवयणवादीणमेगता तो तदत्थिता सिद्धा। अण्णत्ते अण्णाणी णिन्वयणो वा कधं वादी ॥२१७६॥
विण्णाण० गाहा । इह यदेतच्छून्यताविज्ञानमभिधानं च वक्ता च भवान्एतेषामप्येकत्वमन्यत्वं वाभ्युपगम्येत? यो कत्वमतस्तदस्तित्वाभ्युपगमस्ततश्च का शून्यता? अन्यथा हि न वन्ध्यापुत्र-खरविषाणयोरेकत्वमस्ति । स्याद्-अन्यत्वम् , अतोऽपि भवानविज्ञानो निर्वचनश्चेति केन शून्यतोपलब्धाभिहिता वेति शून्यताऽनुपपत्तिः ॥२१७६।।
घडसत्ता घडधम्मो तत्तोऽणण्णो पडादितो भिण्णो । अत्थि ति तेण भणिते को घड एवेति णियमोऽयं ॥२१७७।।
घड० गाहा । यदप्युक्तम् अस्ति-घटयोरेकत्वे सति योऽस्ति घट इति । अत्र वूमो घटसत्ता हि घटधर्म एव घटादभिन्नः पटादिभ्यश्च भिन्नः । ततोऽस्तीत्युक्ते घट एवेति कोयं नियमः ? ॥२१७७॥
१ 'त्ति जे। २ मरूपान्य इति प्रतौ । ३ प्रणयत्तयाइ वि त । ४ एगते जे। ५ ततो जे।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org