SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ नि० ४५१ ] तज्जीवतच्छरीरवादनिषेधः । ३७३ खरविषाणम् । यश्चैषां शरीरादीनां भोक्ता स तेभ्योऽर्थान्तरमा मेति । विद्यमानस्वामिक्रमिदं शरीरेन्द्रियादि, संधातत्वात् । इह यत् संघातात्मकं तदियमानस्व मिकं दृष्टम्, यथा गृहम् । यच्चाविद्यमानस्वामिकम्, न तत् संघातात्मकम्, यथा खरविषाणम् । यश्च शरीरादिस्वामी स तेभ्योऽर्थान्तरमात्मेति । एवं मूर्तिमत्त्वादेन्द्रियकत्वाच्चाक्षुषत्वादित्यादयोऽप्यायोजनीयाः ॥२१२४।। 'जो कत्ताति स जीवो [१३९-द्वि०] सज्झविरुद्धो त्ति ते मती होज्ज । मुत्तातिपसंगातो तं जो संसारिणोऽदोसो ॥२१२५॥ जो कत्ता गाहा । यश्चायं कर्ताऽविष्टाताऽऽदाता भोक्ता अर्थी चोक्तः स शरीरादन्यो जीवः । तथा चैवोदाहृतम् । स्यात्-कुलालादीनां मूर्तिमत्त्वसंघाताऽनित्यत्वादिदर्शनादात्मनोऽपि तद्धर्मतासक्तेविरुद्धाभिप्रायः । तच्च न, संसारिणः खल्वदोषाः । संसार्यवस्थायामेवायं साध्यते, न मुक्तावस्थायाम् । अयं चानादिकर्मसन्तानोपनिबन्ध. नत्वात् द्रव्यपर्यायार्थिकनयाभिप्रायाच्च तद्धर्मेत्यभिप्रायः ॥ २१२५ ॥ जातिरसरो ण विगतो सरणातो बालजातिसरणो व्य । जध वा सदेसवत्तं णरो सरंतो विदेसम्मि ॥२१२६॥ जाति० गाहा । योऽयं जातिस्मरोऽयमविनष्ट इहायातः, तदनुभूतानुस्मरणात् । योऽन्यदेशकालानुभूतमर्थमनुस्मरति सोऽविनष्टो दृष्टः यथा चाल्यकालानुभूतानामन्यदेशानुभूतानां चार्थानामनुस्मा देवदत्तः । यश्च विनष्टो नासावनुस्मरति यथा जन्मानन्तरोपरतः । न चान्यानुभूतानामर्थानामन्यस्याकृतसङ्केतस्यानुस्मरणमस्ति यथा देवदत्तानुभूतानां यज्ञदत्तस्य ॥२१२६॥ अध मण्णसि खणिओ वि हु सुमरति विण्णाणसंततिगुणातो । तह वि सरीरादण्णो सिद्धो विण्णाणसंताणो ॥२१२७॥ अध गाहा । अथ मन्यसे-जन्मानान्तरविनप्टोऽप्यनुस्मरति, विज्ञानसन्तानावस्थानात् । एवमपि भवान्तरसद्भावः, सर्वशारीरिभ्यश्च विज्ञानसन्तानार्थान्तरता सिद्धा, अविच्छिन्नविज्ञानसन्तानात्मकश्चात्मेति शरीरादर्थान्तरमिति सिनः ॥२१२॥ ण य सम्पधेव खणियं णागं पुरोवलद्धसरणातो। खणिो ण सरति भूत जध जम्माणंतरविणहो ॥२१२८॥ ण य गाहा । न च सर्वथैव क्ष विज्ञानमिह, पूर्वोपलब्धार्थानुस्मरणादेव । यः क्षशिको नासावनुस्मरति यथा जन्मानन्तरोपरतः ॥२१२८॥ १ द्रष्टव्या गा० २०२५ । २ णो दो हे। ३ सदेह जे । ४ बालानु-इति प्रतो । बाल्यकालानु इति सूत्रकृ० ० । बालकाला-को० । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy