________________
निश्चय-व्यवहारावग्रहमेदौ । खिप्पेतरातिभेतो जमोग्गहो तो विसेसविण्णाणं ।
जुज्जति विगप्पवसतो सद्दो त्ति सुतम्मि जं केयि' ॥२७९॥ खिप्पे० गाहा । इह किल यतः क्षिप्रमवगृह्णाति चिरेणावगृह्णातीति चोच्यते । अतो नावस्यमवग्रहः समयमात्रं तन्मात्रतायां चाक्षिप्रचिरविशेषणमनर्थकम् । तथा बहुबहुविधविशेषणम् । इह सर्वस्य श्रोतुरविशेपेण प्राप्तिविषयस्थस्य शङ्खभेर्यादिशब्दद्रव्याभिसरणे सति बहुग्रहणात् ज्ञायते शलभेर्यादिविशेषरूपेणाग्रहणमवग्रहः । बहुविधाबहुविधविशेषणेऽपि स्निग्धगम्भीरादिविशेषग्रहणम् । अतोऽनेकविकल्पवशादवग्रहस्य क्वचित् सामान्यग्रहणं क्वचिद्विशेषग्रहणमित्युभयमविरुद्धम् । अतश्च यत्सूत्रेऽपदिष्टं 'तेणं सदेत्ति उग्गहिते' तदपि विशेषविज्ञानं युज्यते एवेति केचिन्मन्यन्ते ॥२७९॥
स किमोग्गहो ति भण्णति गहणेहावायलक्खणते वि ।
अध उवयारो कीरइ तो सुण जध जुज्जते सो वि ॥२८०॥
स कि० गाहा । उच्यते--अस्ति तद्विशेषविज्ञानम् , न त्वसौ निश्चयेनावग्रहो युक्तः, अवग्रहोहावायलक्षणत्वात् । अथोपचारोऽङ्गीक्रियते असावप्येवं न घटते यत्प्रथमसमये एव हि विशेषविज्ञानमिति । कथं तर्हि घटत इति ! शृणु, ब्रूमः- ॥२८०॥
सामण्ण[२०-५०]मेत्तगहणं णेच्छयियो समयमोग्गहोप ढमो । तत्तोणंतरमीहियवत्थुविसेसस्स जोऽवायो ॥२८१॥ सो पुणे ईहावा याक्खातोऽवग्गहो त्ति उवयरितो । ऐस्सविसेसावेक्खं सामण्णं गेण्हते जेण ॥२८२॥ हत्तोणंतरमीहा तत्तोऽवायो य तबिसेसस्स । इय सामण्णविसेसावेक्खा जातिमो भेदो ॥२८३॥
सामण्ण० गाहा । सो पुण० गाहा । तत्तो० गाहा । इह यद्वस्तुसामान्यमात्रग्रहणमनिर्देश्यमयमर्थावग्रहो नैश्चयिकः समयमात्रकाल: प्रथमः । ततः किमिदम्' इत्यनन्तरमीहितवस्तुविशेषस्य शब्दविशेपे विज्ञानरूपो योऽवायः स एव हि 'पुनर्भाविनीमीहामवायं चापेक्ष्याऽवग्रह इत्युपचरितः सूत्रे, यस्मादेष्यविशेषापेक्षया सामान्यमालम्बते । सामान्यार्थावग्रहणं चावग्रह इति । ततो भूयः किमयं शाङ्खः शाङ्गो वेत्यादि विशंपाकाङ्क्षयेहानन्तरमवायः शाङ्खः शाङ्गों वेत्यादि । स एव भूयस्तद्विशेषाकाङ्क्षातो भाविनीमीहामवायमेप्यद्विशेषांश्चापेक्ष्य सामान्यालम्बनादवग्रह इत्युपचर्यते । इत्येवं सर्वत्र सामान्यविशेषापेक्षया यावदन्त्यो भेदस्तेदाकाङ्क्षा विनिवृत्तिवेति । ॥२८१-२८३॥ १ केइ है। केई को । २ किञ्चि इति प्रतौ । : पुणरीहा को है त । ४ वायो जे । ५ एस वि॰ जे। नर्भ इति प्रतो । ७ मवरञ्चा' इति प्रती। ८ अंशा' इति प्रतो । ९ शेषः काक्षा चतो भा' इति प्रतौ । १० धावे' इति प्रतौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org