SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ६२ विशेषावश्यकभाष्ये अत्थोग्गहो वि जं वंजणोग्गहस्सेव चरिमसमयम्मि । पच्छा वि तो ण जुत्तं परिसेस वंजणं होज्ज ॥२७४।। अत्यो० गाहा। यतश्च व्यञ्जनावग्रहस्यैव चरमसमयेऽर्थावग्रहोऽपदिश्यते तस्मात्पश्चादपि न व्यञ्जनावग्रहादालोचनमस्ति । पारिशेष्याद् व्यञ्जनावग्रह एवालोचनं भवेत् , तदप्ययुक्तम् , यस्मात्- ॥२७४॥ तं च समालोयणमत्थदरिसणं जति ण वंजणं तो तं। अध वंजणस्स तो कधमालोअणमत्थमुण्णस्स ॥२७५॥ तं च गाहा । तच्चालोचनमर्थस्य व्यञ्जनस्य वा भवेत् ? यद्यर्थस्य, न व्यञ्जनावग्रहः खल्वालोचनम् , अर्थाशून्यत्वात् । अथ व्यञ्जनस्य दर्शनमालोचनम्, तदप्ययुक्तम् , अर्थशून्यत्वादग्रहणवत्। अथवा न व्यञ्जनस्यालोचनमनध्यवसितत्वादग्रहणवत् । एवं तावन्न व्यञ्जनस्यालोचनमञ्जसा सम्भवति । न च व्यञ्जनस्यादावन्ते वेति ॥२७॥ आलोअणं ति णाम हवेज्ज तं वंजणोग्गहस्सेव । होज्ज कथं सामण्णगैहणं तत्थऽत्थमुण्णम्मि ॥२७६।। आलोअ० गाहाँ । पारिशंष्यादालोचनमिति व्यञ्जनावग्रहस्यैव नाम स्यात् । तदस्तु । को दोषः ? न हि नः संज्ञामात्रे विप्रतिपत्तिः । कथं हि तत्र सामान्यग्रहणमर्थशून्ये भवेत् ! ॥२७६॥ । गहितं व होतु तहियं सामण्णं कधमणीहिते तम्मि । अत्यावग्गहकाले विसेसणं एस सद्दो त्ति ॥२७७॥ गहितं गाहा । अथवा परानुमताववग्रहमास्थायोच्यते-अस्तु तत्र सामान्यग्रहणम् । कथं हि तत्राप्यनीहिते सत्यवग्रहकाले शब्दोऽयमित्यादि विशेषविज्ञानं भवेत् ? ॥२७७॥ अत्यावग्गहसमेए वीसुमसंखेज्जसमइया दो वि । तकावगमसभावा ईहाऽवाया कधं जुत्ता ? ॥२७८॥ अत्या० गाहा । नेहामन्तरेणावायं च विशेषज्ञानमस्ति । तौ च पृथक्पृथगसंख्येयसमयावागमात् , तर्कावगमस्वभावत्वाच्चार्थावग्रहैकसमये कथं स्याताम् , अतो न किश्चिदेतदिति ॥२७८॥ १ चरम को हे त । २ होज्जा को है । ३ vणं गह जे। । अत्थोव त । ५ हवाळे त । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002657
Book TitleVisesavasyakabhasya Part 1
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1993
Total Pages306
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy