________________
व्यञ्जनावग्रहविवरणम्। सामण्णं च विसेसो सो वा सामण्णमुभयमुभयं वा ।
ण य जुत्तं सबमितं सामण्णालंवणं मोत्तुं ॥२७१॥
अत्थो० गाहा । एक्को गाहा । सामण्णं गाहा । इह यदि समयमात्र एव हि विशेषविज्ञानम, अतो यदपदिश्यते--अर्थावग्रहः समयमित्येतद्विहन्यते, असंख्येयसमयत्वात् विशेषग्रहणस्य । अथार्थावग्रहसमयविशेषविज्ञानमतः समयोपयोगबाहुल्यमुक्तं प्राक । तस्मिन्नेव वा सर्वविशेषग्रहणग्रसङ्गः । अवग्रहमात्राच्च विशेपपरिच्छेदादीहादीनामनुत्थानम् , अतः सर्वमतेरवग्रहमात्रता--सर्वमतेरावग्रह इति संज्ञा । अथवा यदि प्राक् समय एव हि विशेषविज्ञानमस्ति----विशेषाध्यवसायमात्रमेवधार्यते, अवाय पवैकमतिः, अवग्रहादिकल्पनमनर्थकम । यच्चापदिश्यते-अन्तर्मुहूर्तमवायस्तदसत् । अथवा प्रथमसमय एवावायसद्भावादवग्रहेहानुःथानादनवगृहीतेऽनीहते च स प्रसक्तः । यदि च प्रागवायस्तस्मादुत्क्रमोऽपि स्यात् ----धारणावायेहावग्रहक्रम इत्यर्थः । तथा हि व्यतिक्रमोऽपि स्यात्-अवग्रहमतिक्रम्येहा तामतिक्रम्य [अपायः, तमतिक्रम्य] धारणेति । यदि च यत्प्रथमसमये गृह्यते स 'विशेषः सामान्यं नाम विशेषः, अर्थापत्या च विशेषः सामान्यमिति विपर्ययः । यदि च तत्र विशंपविज्ञानम् , स चावग्रहः । ईपद्ग्रहणं चावग्रहः सामान्यमात्रग्रहणमित्यर्थः । ततो विशेषो नाम सामान्यम् , अर्थापत्त्या च सामान्य विशेष इति विपर्ययः । उभयं चोभयवस्तु, उभयसद्भावात् , एकैकं सामान्य विशेषश्वेत्येकमेकं द्वयम् । अनिष्टं चैतत्सर्वं यदि न सामान्यमात्रमालम्ब्यतेऽर्थावग्रहः समय इति ॥२६९-२७०-२७१।।
कयि इहालोयणपुच्चमोग्गहं वेन्ति तत्थ साम[१९-द्वि०]णं । ___ गहितमवत्थावग्गहकाले सदो ति णिच्छिण्णं ॥२७२॥
केयि गाहा । इह केचिदर्थावग्रहात्पूर्वमालोचनं 'नामेच्छन्ति । ततः किल सामान्यमात्रगृहीतमर्थावग्रहकालं विशेपेगावच्छिद्यत इति ॥२७२।। तच्च न, यस्मात्
तं वंजणोग्गहातो पुव्वं पच्छा स एव वा होजे ।
पुव्वं तदत्थवंजणसंबंधाभावतो णत्थि ॥२७३॥
तं गाहा । तदालोचनं व्यञ्जनावग्रहात्पूर्व पश्चाद्वा स एव वा व्यञ्जनावग्रहो भवेत् ! सर्वथा चायुक्तम् । कथं ! पूर्व तावदर्थव्यञ्जनसम्बन्धाभावान्नास्ति, अना(आ)लोचनीयस्याभावादि यर्थः ।।२७३।। १ वाधाय इत्यतो वा ए-इति प्रतो । २ सविशेषसामान्येत्तमे विशेष:-इति प्रतौ। ३ कोइ दिहा को है त । ४ सहेत्ति को हे । ५ जना को है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org