________________
विशेषावश्यकभाष्ये
णाणुग्गहोवघाताऽभावातो लोअणं व सो इधरा ।
तोयजलणातिचिंतणकाले जुज्जेज्ज दोहिं पि ॥२१३।।
णाणु० गाहा । न ज्ञेयेन मनः संबध्यतेऽनुग्रहोपघाताभावात् । अन्यथा हि तोय-चन्दनादि चिन्तनादनुगृह्येत, अग्नि-शास्त्रादिचिन्तनाच्चोपहन्येत इति ।।२१३॥
'दव्वं भावमणो वा वयेज्ज जीवो य होज भावमणो।
देहव्वावित्तणतो ण देहवाहि तँओ जुत्तो ॥२१४॥
दव्वं गाहा। इह परस्य द्रव्यमनो भावमनो वा बहिनिश्चरेत् ? जीवश्च मननपरिणामक्रियापन्नो भावमनः । नासौ वहिर्युक्तरूपः, शरीरमात्र व्यापि त्वात् ॥२१४॥
सव्वगतो ति य बुद्धी कत्ताऽभावादिदोसतो तणे ।
सव्वासवग्रहणप्पसंगो वा वि ॥२१५॥
सव्व० गाहा । स्यान्मतिः-सर्वगतोऽसौ, ततश्च नित्यप्राप्त एवेति । तच्च न, अकर्तृत्वादिप्रसङ्गात् । कथमकर्त्तात्माफ्यते ? सर्वगतत्वात् , आकाशवत् । एव[म] भोक्ता, असंसारी अज्ञो न मुखी न दुःखीत्यादि । यदि च प्राप्य गृह्णात्यतः सर्वगतत्वात् सर्वत्र प्राप्त इति सर्वग्रहणप्रसङ्गः । ततश्च सर्वसर्वप्रसङ्गः। न चेत् प्राप्नोति (प्राप्तमपि) सर्व गृह्णाति, अतः किञ्चिदपि मा ग्रहीत् इति सर्वाग्रहणप्रसङ्गः ॥२१५॥
दव्यमणो विष्णाता ण होति गंतुं य किं तओ कुणतु । अध करणभावतो तस्स तेण जीवी वियाणेज्ज ॥२१६।। करणतणतो तणुसंठितेण जाणेज्न फरिसणेणं हूँ ।
एत्तो चिय हेतूतो ण णीति बा[१६-प्र०]हिं फरिसणं व ॥२१७॥ दव्य० गाहा । करण• गाहा । अथ द्रव्यमनो निश्चरेदिति ब्रूमः । गतमपि सदकिञ्चित्करं तत् , अज्ञत्वादुपलवत् । अथ मतिः-करणत्वात् द्रव्यमनसस्तेन प्रदीपेनेव प्रकाशितमर्थमात्मा यदि जानीते को दोषः ? तच्च न, यस्माच्छरीरस्थेनैवानेन जानीते, न बहितिनान्तःकरणात् । इह यदा मनोऽन्तःकरणं तेन शरीरस्थेनोपलभेत यथा स्पर्शनेन । प्रदीपस्तु नान्तःकरणमात्मनः तस्मादसमाधिः । 'अत एव हेतोः' बहिरपि न तन्निश्चरति स्पर्शनवत् । 'अत एव हेतोः' इत्यात्मनोऽन्तःकरणत्वादित्यर्थः । २१६-२१७|| आह ---यदुक्तमनुग्रहोपघाताभावादप्राप्तकारि मनस्तन्न, यस्मात्१ आ० दव्वं जे । २ होइ त को है । ३ जओ त । ४ ° गउ त्ति को हे। ५ तण्णु जे । जाणिज्ज को है।.७ वाजे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org