________________
नयनमनसोरप्राप्यकारित्वम् । देज्झेज्ज पावितुं रविकरादिणा फरिसणं व को दोसो।
मण्णेज्जणुग्गहं पिव उवघाताभावतो सोम्मे ॥२०९॥ दझं० गाहा । इह न ब्रूमः सर्वथैव चक्षुपोऽनुग्रहोपघातौ न स्तः । किं तर्हि ? विषयमप्राप्तमालम्बत इति ब्रूमः । प्राप्तेन तूपघातकेनोपहन्येत सूर्यरश्म्यादिना।। यत् तु शीतरयम्य(°म्युप)शान्तरश्मि वा तेनानुगृह्येत, अनुपघातकत्वादानुग्रहमिव मन्येत । अन्यथा हि समानायां प्राप्तौ को हेतुर्यतो रश्मिमात्रकृतो भवत्युपघातोऽनुग्रहो वा नाग्निजलशूलाद्यालोकनादहनक्लेदनपाटनादय इति ।।२०।।
गंत ण रूबदेसं पासति पत्तं सयं व णिय१५-द्वि०मोऽयं ।
पत्तेण तु मुत्तिमता उघाताणुग्गहाँ होज्जा ॥२१०॥
गंतुं गाहा। तस्मान्न रूपदेशं गत्वा पश्यति, प्राप्तं वाऽर्थमालम्बत इतीदं नियम्यते । मृतिमता तु प्राप्तेन अनुगृह्येतोपहन्येत वा तद्रश्मिभिर्वेति न दोषः ।।२१०॥
जति पत्तं गेण्हेज्ज वे तग्गतमंजणरओमलादीयं ।
पेच्छेज्ज जण पासति अपत्तकारिं ततो चक्खं ॥२१॥
जति गाहा । यदि वा प्राप्तमर्थ गृह्णीयात् तद्गतमञ्जनरजोमलादिकं पश्येत् । न च पश्यति । तस्मादप्राप्तकारीति ॥२११॥
__ आह–प्राप्तविषयं नयनम् , आवरणाद् घ्राणवत् । न, अनैकान्तिकत्वात् मनोवत् । मनोऽप्यप्राप्तविषयं सद्विषयां सद्वि(°यं सद्विषादि)भिरात्रियत इति । रूपावरणेपि हि बाह्यानुग्रहाभावादग्राहकं चक्षुरनुग्रहशून्यं मनोवत् । मनोऽपि ह्यप्राप्तकारित्वे सत्यैःन्द्रियकेष्वर्थेषु नेन्द्रियानुग्रहशून्यमनुप्रवर्तते क्वचित् । यस्य चाभिप्रायः खल्वप्राप्तकारिणा बाह्यानुग्रह निरपेक्षेणानुप्रवर्तितत्व(व्यं) तस्य मनसापीन्द्रियैः प्रकाशितेप्वप्रकाशितेषु वाऽविशेषेण सर्वार्थप्वनुप्रवत्तिंतव्यम् । न चानुप्रवर्ततेऽत्यन्तमदृष्टाश्रुतादिष्विति ॥२११।। आह-प्राप्तकारिता श्रद्धीयते चक्षुषो न तु मनसो यस्मात्
'गंतुं णेएण मणो संवज्झति जग्गतो व सिमिणे या ।
सिद्धमिदं लोग्गम्मि वि अमुगत्य गतो मणो मे त्ति ॥२१२।।
गंतुं गाहा । इह ज्ञेयेनार्थेन यात्वा मनः सम्बध्यते जाग्रतः स्वप्ने वा । सिद्ध मिदं लोकेऽपि-'अन्यत्र मे गतं मनः' इति ॥२१२॥ उच्यते१ श्रा० दझे जे। उज्झे त को है। २ सोम्मं है । ३ गंतू जे । ४ “हो त । ५ °उन उ को है । ६ चो. गंतुं जे। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org