________________
ध्यानावग्रहविवरणम् । ।।१९९।। यच्चेहार्थावग्रहविज्ञानं तदसंख्ये यसमयोपचितशब्दादिव्यसमुदये वा सम्भाव्येत. चरमसमयोपात्तद्रव्येषु वा ! तत्र समुदये तावत्--
नं सव्वधा ण वीसुं सव्वेमु वि तण्ण रेणुतेल्लं व ।
पत्तेयमणिच्छंतो 'कियमिच्छसि समुदये गाणं ॥२००||
जं सव्व ० गाहा । परमतमास्थायोच्यते-न समुदये विज्ञानमस्ति, पृथक सर्वथाऽभावात् , रणुतैलवत् ॥२०॥
समुदाए जति णाणं दमूणे समुदए कधं णत्थि । - समुदाए वाऽभूतं 'विध देरी होज्ज तं सयलं ॥२०१॥
समुदा० गाहा। समस्त समययसमुदाये वा यदि ज्ञानमिष्टं कथं तत् समुदायैकदेशान्त्यसमयद्रव्यविकलं न स्यात् ? अथवा पक्षः क्रियते-~-व्यञ्जनादानसमयेप्वपि ज्ञानम् अस्ति, ज्ञानोपकारिद्रव्योपादानसमथसमुदयैकदेशत्वात् , अर्थावग्रहसमयवत् । स्यात् चरमसमयोपात्तद्रव्येषु सम्भाव्यतं विज्ञानम् , अतः शेपसमयोपात्तद्रव्यसमुदाये सर्ववैवाभूतमन्त्यसमस्तद्रव्येषु कथं समस्तमेवं स्यात् ? न, परस्यान्त्यसमयद्रव्येषु ज्ञानमस्ति, समयमात्रोपात्तत्वात् , व्यञ्जनावग्रहणैकसमयद्रव्यवत् । स्यात्प्रत्यक्षाविरुद्धमिदमर्थावग्रहसमयेऽपि न ज्ञानमिति । तच्च न, तत्रैव समस्तप्रतिपत्तेः प्रत्यक्षविरोधात् , अन्त्यत:]तो समस्तपटप्रतिपत्तिवत् । अनुमानविरोधश्च ज्ञानोपकारिद्रव्यसामान्यादर्थावग्रहसमयद्रव्यवदित्युक्तम् ॥२०१॥
तंतू पडोवकारी ण समत्तपडो य समुदिता ते तु ।
सव्वे समत्तपडओ तध णाणं सव्वसमएसु ॥२०२॥
तंतू गाहा । तस्माद्यथा तन्तुः पटैकदेशोपकारी न सर्वथैवापटो, न च समस्तपटः, किन्तु समस्तासमस्तपट इति । तद्वत् सर्वसमयदव्याणां तदुपकारिस्वात् सर्वसमयपु ज्ञानमिति ॥२०२।।
[१५-प्रणयणमणोवज्जिन्दियभेतातो बंजणोग्गहो चतुधा।
उवघाताणुग्गहतो नं ताई पत्तकारीणि ॥२०३॥
णयण० गाहा । स च व्यञ्जनावग्रही नयनमनोव रिन्द्रियैर्भवति, तेषां प्राप्ति(प्त)कारित्वात् । तत्प्राप्तकारिता कथम् ? अनुग्रहोपघातदर्शनात् । त्वक्चन्दनादियोगवत् ॥२०३।। १ कह त को हे । २ कह को हे त । ३. व्यअनादातनयेष्यपि ज्ञानं नास्ति इति प्रती ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org