________________
४६
विशेषावश्यकभाष्ये तकालम्मि वि णाणं तत्थत्थि तणुं ति तो तमन्नत्तं ।
वधिरादीणं पुण सो अण्णाणं तदुभयाभावा ॥१९५॥
तका० गाहा । व्यञ्जनादानकालेऽपि च तत्र ज्ञानमस्त्येव, सूक्ष्माव्यक्तस्वात्तु नोपलभ्यते, सुप्ताद्यव्यक्तविज्ञानवत् । अव्यक्तवधिरादिव्यञ्जनोपादानं पुनरकारणत्वाद् विज्ञानस्य तत्काले बाल्यसमोप(अल्पस्याप्य)भावादज्ञानमिति ॥१९५।।
केधमन्चत्तं गाणं च मुत्तमतादिसुहमयोधो छ ।
मुत्तातयो सयं 'चिय विष्णाणं णाववुझंति ॥१९६॥
कध० गाहा । आह्-ज्ञानमव्यक्तं चेति विरुद्धमुच्यते, प्रकाशस्य तमोऽभिधानवत् । उच्यते-ननक्तं सूक्ष्मत्वादेकतेजोऽवयवप्रकाशवत् , सुप्ताद्यव्यक्तबोधवच्च । सुप्तादयोऽतिसूक्ष्मत्वादात्मनीनमेव हि विज्ञाने(न) नावबुध्यान]त इति ।।१९६।। आह-यदि न तैरपि तदुपलभ्यते कथं तदुपलक्ष्यते 'अस्ति' इति ? उच्यते -..
लक्खिज्जइ तं सिमिणायमाणवयणंदाणादिचिट्ठाहि ।
जं गोऽमतिपुवाओ विज्जते वयणचेट्ठाओ ॥१९७॥
लखिज्ज० गाहा । इह सुप्तोऽपि कश्चित् स्वप्नायमानो भाषते, शब्दितश्च वाचं प्रयच्छति, सङ्कोच-विकोच-कण्डूयनादिक्रियाश्च करोति, न च तदा तान्युपलभते, विबुद्धोऽपि च न स्मरति, अवश्यं च मतिपूर्वाभिवाक्चेष्टाभिर्भवितव्यमित्यत. स्तदनुमीयते 'अस्ति' इति ॥१९७॥
जग्गंतो वि ण याणति च्छतुमत्यो हितयगोयरं सव्वं ।
जं तज्झवसाणाई जमसंखेज्जाइं दिवसेण ॥१९८॥
जग्गंतो गाहा। इह जाग्रन्नपि ताक्च्छमस्थो न समस्तं हृदयगोचरं जानीते किन्नु सुप्तः ? यतोऽन्तर्मुहुर्तेनाऽसंख्येयान्यध्यवसानान्तराण्यतिकामति, किमु समस्तेनाहा, न चोपलभते पृथक्, तद्वद् व्यञ्जनाबाहविज्ञानमिति ॥१९८।।
जति वेऽण्णाणमसंखेज्जसमयसदातिदव्यसभावे । कैध चरिमसमयसदातिव्यविष्णाणसामत्थं ॥१९९।।
जति गाहा। यदि वा तदज्ञानमसंख्येयसमयोपचितशब्दादिद्रव्यसद्भावे सति कथमिह तच्चरमसमयोपात्तेपु शब्दादिद्रव्येष्वथांवग्रहविज्ञानसामर्थ्य सम्भाव्यते ? १ चो० कध। २ बिय है। ३ वयणादिदाणचे जे । ४ ज णो मति जे। ५ चिट्ठा को हे। ६ जति अण्णा जे । ७ किह चरम को हे। किह च त ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org