________________
६७
मतिश्रुतयोर्मानात्वम् । इतरं गाहा । "इतरत्थ वि भोज्ज सुतं" गा० १२७]ति । इतरद् मतिज्ञानमभिसम्बध्यते । आह-यदि तस्मादपि शब्दपरिणामा(मो जा)यतेऽतस्तत्रापि किं न श्रुतम् ! उच्यते-"उवलद्धि समं (जइ भ)णेज्जा"[१२७] । न चोपलब्धिसमं भाषते ॥१५०॥ कथम् ?
अभिलप्पाणभिलप्पा उवलद्धा तस्समं च णो भणति ।
तो' होतेभयरूवं उभयसभावं ति कात्रणं ॥१५१॥
अभिल० गाहा । यस्मादभिलाप्यानभिलाप्याश्चोपलभते न तान् भाषते । किं तर्हि ? अभिलाप्यानेव भापते, नानभिलाप्यानिति । आह-एवं मात(मते)रुभयरूपताssप्नोति ---- मतिः श्रुतं चेत्यर्थः ।।१५।। अथ नैवम् , यानुपलभते भाषते च तद्विज्ञानमस्याः(स्य) श्रुतमेवास्तु, किं तत्र मत्या । उच्यते
जं भासति तं पि जतो ण सुतादेसेण किंतु समतीए । __ण सुतोवलद्धितुल्लं ति वा जतो गोवलद्रिसमं ॥१५२॥
जं भास० गाहा । इह यदपि किञ्चिदसौ भाषते तदपि न श्रुतग्रन्थानुसारेणोपलभ्य । किं तर्हि ! स्वमत्या स्वमतिविज्ञानेनोपलभ्य भाषत इत्यर्थः । अतस्तदुपलब्धिसमं न भवति । केन ? श्रुतेन । किमुक्तं भवति ? अन्यथा श्रुतेनोपलभतेऽन्यथा मत्या । श्रुतविज्ञानेन जैनग्रन्थानुसारेणोपलभते, मत्या तु स्वविज्ञान( नेनै)वेति ।।१५२।।
अण्णे मणंति मती वॉयसमा सुर्वैसरिसयं सुत्तं । दिद्वन्तोयं जुतिं जधोवणीतो न संसहति ॥१५३॥
अण्णे गाहा । अन्ये मन्यन्ते वल्कप्रतिमा मतिः । सैव शब्दतया संदर्भिता सती सूत्रमुच्यते । शुम्बवत् यथा चायं दृष्टान्तस्तैरुपनीयते तथा न युक्तं(क्ति) संस हते, अन्यथा न(च) संसहत इत्यर्थः ।।१५३॥
भावमुताभावातो संकरतो णिबिसेसभावातो।
पुव्वुत्तलपवणातो सलक्खणावरणभेतातो ॥१५४।।
भावमुता० गाहा । कथं पुनर्न संसहते ? शब्दमात्रस्य श्रुतस्याभावप्रसङ्गात् , मतिश्रुतयोः संकरात् , अविशेषात् , स्वलक्षणभेदात् , आवरणभेदात् पूर्वोक्तलक्षणा एवैते तथेहाप्यायोज्याः ॥१५॥ १ आ. तो जे। २ तो होज्ज उभको । तो होउ उभ हे । ३ वग्ग को है। सुबत।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org