________________
विशेषावश्यकभाष्ये एवं सव्व० गाहा । आह-एवं.तर्हि सर्वज्ञानप्रसङ्गस्तेषाम् । उच्यते-न, तदावरणक्षयोपशमाद्यभावात् । किन्तु मति-श्रुतावरणक्षयोपशमान्मतिश्रुते एवे एतेषामित्यागमः । इतश्च मति-श्रुतयोर्विशेषः, यतः सूत्रेऽभिहितम्--॥१०३॥
मतिपुव्वं सुतमुत्तं ण मती सुतपुचियाँ विसेसो यं ।
पुव्वं पूरणपालणभावातो जम्मती तस्स ॥१०४॥ मतिपुव्वं मुतं ति गाहा । ननु मतिः श्रुतपूर्वेति “पृ पूरण-पालनयोः" इत्यस्य पूर्यते पाल्यते चानेनेति, पूर्व(श्रुतस्य च मतिः पूर्व( पूर्वम् ) कारणमित्यर्थः ।।१०४॥
पूरिज्जति पाविज्जति दिज्जति वा जम्मतीय णामतिणा।
पालिज्जति य मतीए गहितं इधरा पणस्सेज्जे ॥१०५॥
पूरिज्जति गाहा । श्रुतं मत्या पूर्यते प्राप्यते स्वयमित्यत्र वेति (?), न मतिमन्तरेण प्रापयितुं वा शक्यत इत्यर्थः, पाल्यते च तया, प्रत्यावर्त्तयते(तो) न प्रणश्यतीत्यर्थः ॥१०५॥
णाणाणण्णाणाणि य समकालाई जतो मतिसुताई ।
तो ण सुतं मतिपुव्वं मतिणाणे वा सुतं गाणं ॥१०६॥
णाणाण० गाहा । आह-यतो मति-श्रुतयोर्युगपदुत्पत्तिः प्रलयश्च पृथग् ज्ञानयोरज्ञानयोश्च अतः श्रुतं न मूतिपूर्व युक्तम् , तत्पूर्वकत्वेनोत्पन्नायां मतावनुत्पन्नस्य श्रुतज्ञानस्य श्रुताज्ञानप्रसङ्गः ॥१०६।।
इह लद्धिमतिसुताई समकालाई ण तूवयोगो सिं ।
मतिपुव्वं सुतमिध पुण सुतोवयोगो मतिप्पभवो ॥१०७॥
इह लद्धि० गाहा । उच्यते--यतो लब्धिमति-श्रुते समकाले भवतः, इह तु श्रुतं मतिपूर्वमित्युपयोगोऽधिक्रियते, यतो नासञ्चिन्त्य मत्या श्रुतग्रन्थानुसारिविज्ञानोत्पत्तिरस्ति ॥१०७||
'सोऊण जा भई भे सा सुयपुत्ति तेण न विसेसो ।
सा दबसुयप्पभवा भावसुयाओ मई नस्थि ॥१०८॥
सोऊण गाहा । आह—या हि श्रुत्वा मतिरुत्पद्यते सा पि हि श्रुतपूर्वेति कृत्वोभयमन्योऽन्यपूर्वमित्यविशेषः । उच्यते-द्रव्यश्रुतपूर्वाऽसौ, शब्दमात्रपूर्वेत्यर्थः, इह तु भावश्रुतमधिक्रियते यदि. तत्पूर्वस्यास्योदयविशेषः, न च तत्पूर्वाऽस्ति ॥१०८॥ १ एव तयामि' इति प्रतौ। २ “मतिपुव्वयं सुयं ण मती सुयपुब्विया"-नन्दी ४४ । ३ इए को है । ईए त । १ “ज्जा को है । पणन्भिज्जा त । ५ सुयन्नाणं को हे । ६ नास्ति एषा गाथा जेप्रतो । ७ पुवित्ति त ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org