________________
२१३
घरणप्रशंसा । यमात्रम् । यावति चोक्ते शेषमनुक्तमपि बीजादिवुद्धयोऽनुधावन्ति । तच्च द्वादशाङ्गापेक्षयाऽर्थोऽभिधीयते । गणभृतां तु तदेव सूत्रमर्थी वेति समानम् ॥१११९।।
अंगाइसुत्तरयणाणिरवेक्खो जेण तेण सो अत्थो । अधया ण सेसपवयणहितो' त्ति जध वारसंगमिणं ॥११२०॥ पवयणहितं पुण तयं जं मुहगहणाति गणधरेहितो। वारसविधं पवत्तति णिउणं मुहुमं महत्थं च ॥११२१॥
अंगाइ गाहा । पव० गाहा । अङ्गादिविभागनियमाभावादङ्गादिसमुदाय-- वचनवाच्चासावर्थः । अथवा यतो न शेपप्रवचनहितो यथेदं द्वादशाङ्गम् । न हि गणधरवदुत्पन्नादिपदत्रयमात्रोपनिवन्धनादशेपट्टादशाङ्गावयवार्थानुस्मरणं सर्वेण शक्यं यथाङ्गादिविभागतः, तस्मात् तदेव प्रवचनहितं यत् मुखग्रहणादिगुणं गणधरेभ्योऽनुप्रवर्तते द्वादशाङ्गाचारादि, तदेव हि मूत्रमुच्यते, समस्तावयवार्थोपनिबन्धनात्तदनुसरणाच, तदभिधेयश्चार्थ इति । निपुणमतिसूक्ष्मं वहथं च ॥११२०-२१॥
णियतगुणं वा णिउणं णिहोसं गणधराऽधवा णिउणा ।
तं पुण किमातिपज्जतमाणमध को व से सारो ॥११२२॥
णियत० गाहा । अथवा नियतगुणं निगुणं सन्निहितसमस्तसूत्रगुणमित्यर्थः । पाठान्तरतो वा गणधरा णि(नि)पुणा निगुणा वा सुमतयोऽतिशयसम्पन्नाश्चेत्यर्थः । आह - तत्पुनः श्रुतज्ञानं किमादि कि पर्यन्ति कियत् परिमाणं को वास्य सार इति ! ॥११२२॥
सामाइयमातीयं मुतणाणं जाव विंदुसारातो । - तस्स वि सारो चरणं सारो चरणस्स व्याणं ॥९३।।११२३॥
सामा० गाहा । उच्यते श्रुतसामायिकादि तदादिप्रदानात् यावद् बिन्दुसा-- मदिति वचनाद् बिन्दुसारपर्यन्तम् । यावच्छन्दादेव च द्यनेकद्वादशपरिमाणम् । तस्यापि सारश्चरणमिति । सारशब्दः प्रधानपर्यायश्च । श्रुतज्ञानं सारस्ततश्चरणं श्रुतज्ञानात प्राधानतरं नःफलं चेत्यर्थः । सारश्चरणस्य निर्वाणमित्यत्र सारशब्दः फलवचनः, चणफलं निवाणमित्यर्थः । तस्यापीत्यपिशव्दात्सम्यग्दर्शनस्यापि सारश्चरणम् , अथवा तम्य शुतज्ञा• स्य अपि सारश्चरणमपि, [अपिदाब्दात् ] निर्वाणम्, अन्यथा हि ज्ञानस्य निर्वाणसाचनगावो न स्यात् , चरणस्यैव ज्ञानशून्यस्य स्यात् । ततश्च ज्ञानक्रियाभ्यां निर्वाणमिति विरुद्धचत ॥११२३॥ १ हियत्ति को। हिपउत्ति है। २ तमाणमिह त । ३ णि हे। ४ °णमति -इति प्रतौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org