________________
सूत्रलक्षणविवरणम् ।
१८७
निःसारं परिफल्गु वेदवचनवत् । वर्णादिभिरभ्यधिकमधिकम् । तैरव हीनमूनम् । अथवा हेतूदाहरणाधिकमधिकं यथा अनित्यः शब्दः कृतकप्रयत्नानन्तरीयकत्वाभ्याम्, घटपटवदित्यादि । एतान्यामेव हीन मनमुक्तं यथाऽनित्यः शब्दो घटवत् अनित्यः शब्दः कृतकत्वा[दिव्यादि । शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात | अर्थादापन्नस्य स्वशब्देन पुनर्वचनं यथा 'देवदत्तो दिवा न भुङ्क्ते इत्यर्थादापन्नं रात्रौ भुङ्क्ते इति । तत्र यो ब्रूयात्'दिवा न भुङ, रात्रौ भुङ्क्ते इति स पुनरुक्तमाह । व्याहतं यत्र पूर्वेण परं विहन्यते, यथा"कर्म चास्ति फर्द चास्ति कर्जा नैव कर्मणाम्" इत्यादि । अयुक्तमनुपपत्तिक्षमम्, यथा "तपा कटितटष्टजानां मदविन्दुभिः ।
व्यावर्त्तत नदीघोरा हस्त्यश्वरथवाहिनी ||" इत्यादि ।
क्रमभिन्नम्-यत्र यथासत्यमनुदेशो न क्रियते । यथा स्पर्शन - रसन-प्राणचक्षुःश्रोत्राणामर्थाः स्प-रस-गन्ध-वर्ण-शब्दा इति वक्तव्ये स्पर्श-रूप-शब्द- गन्ध-रसा इनिव्यादिति । वचनभिन्नं वचनव्यत्ययः यथा वृक्षावेतौ पुष्पित इत्यादि । विभिक्तव्यत्ययः यप वृक्ष इति वक्तव्ये ए वृक्षमित्याह । लिङ्ग भिन्नं लिङ्गव्यत्ययः यथेयं स्त्रीति वक्तव्ये - अयं स्त्रीत्याह । अनभिहितमनपदिष्टं स्वसिद्धान्ते यथा सप्तमः पदार्थः, दशमं द्रव्यं वा वैशेषिकस्य, प्रधानपुरुपाभ्यधिकं सांख्यस्य, चतुः सव्यातिरिक्तं शाक्यस्येत्यादि । अपदम् - पंथे विधावन्यच्छन्दोधिकारेऽन्य छन्दोभिधानम. यथायपि वैतालीयादिपदाभिधानम् । स्वभावहीनम् - यस्तुनः स्वभावतोऽन्यथाभवनम् यथा शीतः मृर्तिमदाकाश[ म्] इत्यादि । व्यवहितमन्तर्हितम्-यत्र प्रकृतमुत्सृज्याप्रकृतं व्यासतोऽभिधाय पुनः प्रकृतमभिधीयते यथा हेतुकथामधिकृत्य सुपूतिइन्तपदलक्षणप्रपञ्चम्, अर्थशास्त्रं वाभिधाय पुनर्हेतुवचनमित्यादि । कालदोपः - अतीतादिकालव्यत्ययः यथा रामो वनम ]विशति वैध्यते कर्ण इत्यादि । यतिदोषः -यतिव्यत्ययः । यतिविच्छेदः । तस्याऽकरणमस्थानकरणं वेत्यर्थः । यथा सग्धरायाखिसकेप्यकरणम, अन्यत्र वा करणमित्यादि । विदोषः छविहीनता । हविरलङ्कारविशेषस्तेजस्विता । समयविरुद्धं व्यत्वसिद्धान्तविरुद्धम् - यथा सख्यस्य [अ] सत् कारणं कार्यम्, सर्वैशेषिकस्येत्यादि । वचनमात्रमहेतुकं 'यथेच्छ भूप्रदेशलोकमध्याभिधानवत् । अर्थापत्तिदोषो यत्रार्थादनिष्टापत्तिर्ययह ब्राह्मणो न हन्तव्य इत्यर्थादवाहाणघातापतिः । असमासदोषः-समायो यत्र वा समासविधौ सत्यसमासवचनं यथा राज्ञः पुरुषोऽयमित्यादि । १ व्याय-इति प्रती । ● पावि इति प्रत । कृतिमु' - इति प्रती । ४ पेय-इति प्रताँ । १ स्यात्र के इति प्रतो । ६ यथेष्टरूपदे - इति प्रती । द्रष्टव्या दशवें० नि
FIT C ८७ तदूव्या
ख्या च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org