________________
१८८
विशेषावश्यकभाप्ये
उपमादोषः-हीनाधिकोपमानुपमाभिधानम्, यथा मेरुः सर्पपोपमः, सर्पपो मेरूपमः, मेरुः समुद्रोपम इत्यादिः । रूपकदोपः-स्वरूपावयकयत्ययः, यथा पर्वतानुरूपावयवानां पर्वते अनभिधानं समुद्रावयवानां वाभिधानमित्यादि । अनिर्देशदोपो यत्रोटिष्टपदानामेकवाक्यभावो न क्रियते यह देवदत्त: काष्टैः स्थाच्यामोदनं पचतीति वक्तव्ये पचतिशब्दाsनभिधानम् । पदार्थदोपो यत्र वस्तुपर्यायवाचिनः पदस्यार्थान्तरपरिकल्पनमाश्रीयते, यथेह द्रव्यस्वरूपपर्यायवाचिनां सत्तादीनां द्रव्यादर्थान्तरपरिकल्पनमुलकस्य । सन्धिदोषो 'विश्लिष्टसन्धित्वं व्यत्ययो वेति । एभिर्विमुक्त द्वात्रिंशदोपरहितम् , लक्षणयुक्तं सूत्रमिति वाक्यशेषः, द्वात्रिंशदोषरहितं यच्चेति वचनात्तच्छन्दनिर्देशो गम्यते । अष्टाभिश्च गुणरुपेतं यत् तल्लक्षणयुक्तमिति वर्तते ॥९९४।। ते चेमेगुणाः
"णिदोसं 'सारमंतं च हेतुजुत्तमलंकितं ।
उवणीतं सोवयारं च मितं मधुरमेव य ॥९९५॥ णिद्दोसं सिलोगो । निदोपमुक्तम् । सारवद् बहुपर्यायमुच्यते, गोशब्दवत् । अथवा सामायिकाभिधानवत् । हेतुरुपपत्तिः । हेतुयुक्तमुपपत्तिमत् । अलंकृतमुपमादिभिरुपेतम् । उपनीतमुपनयोपसंहृतम् । सोपचारमग्राम्याभिधानम् । मितं वर्णादिनियतपरिमाणम् । मधुरं श्रवणमनोहरम् ।।९९५॥
अप्पक्खरमसंदिद्धं सारवं विस्सतोमुखं ।
अत्योभमणवज्जं च सुत्तं सवण्णुभासितं ॥९९६।।
अप्पक्ख० सिलोगो। असंदिग्धमसंशयम्, यथा सैन्धवाभिधाने लवणजनपदपुरुषादिसंशयः। सारवदल्पाक्षरं चोक्तम् । व्याख्यान्तरं चेदमित्यपुनरुक्तम् । विश्वतोमुखमनेकमुग्वमनुसूत्रमनुयोगचतुष्टयाभिधानात् । सारवत्तु प्रतिमुखमनेकार्थाभिधायकमित्यपुनरुक्तम् । वै-हिकारादयोऽनर्थकाः पदच्छिद्रपूरणायैवोपादीयमानाः स्तोभका इत्युच्यते । स्तोभकः क्षेपकर मदिरहादस्तोभकम् । अनवद्यमगर्यमित्यादिलक्षणं सूत्रानुगमे सूत्रमुच्चारणीयम् ॥९९६॥
मुत्तेऽणुगते सुद्धे त्ति णिच्छिते तध कते पदच्छेदे ।
सुत्तालावण्णासे णिक्खित्ते सुत्तफासो तु ॥९९७।। १ तेनामि इति-प्रता। २ दृिश्य-इति प्रता। ३ विक्लिष्ट-इति प्रतो । ५ णिहोसं इति गाथाद्वयं संपादकेन हेमचन्द्रमलधारिटीकायां भाध्यत्वेन न मुद्रितम् , किन्तु " इति द्वात्रिंशद्गाथार्थः ( गा.१००.)" इति टीकावचनदो हेम बन्दैरनुमतमेव भाष्यत्वेन, अन्यथा द्वात्रिंशद्गणनाया असंभवात । द्रष्टव्या मा. ९७. टीका । तपतो उक्तगाथाद्र्यं नास्ति । ५ सारवं चेव हे को। सारवतं च हेटी । ६ शयसारे वद-इति प्रतो । ५ वयनासे त को हे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org