________________
विशेषावश्यकभाष्ये केवल० गाहा । केवलज्ञानमिह समापितम् । तत्समाप्तौ च नन्दी । तत्परिसमाप्तौ च मङ्गलमिति ॥छ।।
· इदानी मङ्गलार्थोऽनुयोगः । मङ्गलेनार्थोऽस्येति मङ्गलार्थः १ अथवाऽर्थतेऽसावित्यर्थः गम्यते साध्यत इति यावद मङ्गलस्यार्थी मङ्गलार्थो 'मङ्गलसाध्यः । स च कः ? प्रकृतोऽनुयोगः । प्रकृतोऽधिकृत इत्यर्थः ।।८३२॥
सो मतिणाणातीणं कतरस्स सुतम्स जण्ण सेसाई । होन्ति पराधीणाई ण य परवोधे समत्थाई ॥८३३॥
सो मति गाहा । सोऽनुयोगो मतिज्ञानादीनां कतमस्येति ? उच्यते ! श्रुतस्य, न शेषाणामपराधीनत्वादपरप्रबोधकत्वाच्च ॥८३३॥
पाएण पराधीणं दीवो व्व परप्पवोधयं जं च ।
मुतणाणं तेण परप्पवोधणत्थं तदणुयोगो ॥८३४॥ पाए. गाहा । श्रुतं तु प्रायेण यतः पराधीनं परप्रबोधकं च प्रदीपवत् । अनुयोगश्च परेप्रबोधनायारभ्यते । अतः 'श्रुतस्यैवासाविति ॥८३४॥
सोऽधिगतो चिय आवासयस्स कतरस्स कित्थे चिन्ताए । नं चिय सुतं ति साहति मृताणुयोगाभिधाणेणं ।।८३५।।
सो० गाहा । आह.--प्रबोधकस्यास्यानुयोगं वक्ष्यामीत्युक्त एवासौ, पुनः 'कतमस्य ज्ञानस्य' इति किमनया ! उच्यते - इह श्रुतज्ञानस्यानुयोग इत्यभिधानात्तदेवावश्यक श्रुतविशंप इत्युक्तं भवति ॥८३५।।
अणुयोजणमणुयोगो सुतरस णियएण जमभिधेयेणं । वावारी वा जोगो जोऽणुख्योऽणुकूलो वा ॥८३६॥
अणु० गाहा । आह---अनुयोग इति कः शब्दार्थः ? उच्यते । श्रुतस्य स्वेनार्थेनानुयोजनमनुयोगः । अथवा सूत्रस्य स्वाभिधेयव्यांपारो योगः, अनुरूपोऽनुकूलो 'योगोऽनुयोगः ॥८३६॥
अधवा जमत्थतो थोरपच्छभावेहि सुतमणुं तस्स ।
अभिधेये वावारो जोगो तेणं व संबन्धो ॥८३७।। १ भी मालार्थः । स च-इति प्रतौ । २ प्रयोधनावार'-इति प्रती । ३ भावस्सय को हेत। किंवत। ५ हतु बोध-इति प्रती । ६ अणुवयण हे । ७ ओ अणु को। ८ लोपयों - इति प्रतो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.