________________
११४
विशेषावश्यकभाष्ये तं जइ गाहा । यदि श्रुतज्ञानं जीवस्तथा श्रुतनाशे सति जीवनाशः प्राप्तः । उच्यते-अस्तु श्रुतज्ञानपर्यायमात्रणास्य नाशः । को दोषः ? सर्वथा तु नेप्यते, यस्मादसावुत्पादव्ययध्रौव्यधर्मा, अनन्तपर्यायश्च ॥५४०॥ न चात्मैव केवलमेवं स्वभावः । किं तर्हि ?
[३७-५०] सव्वं चिय पतिसमयं उप्पज्जति णासते य णिच्चं च ।
एवं चेव य सुहदुक्खवंधमोक्खादिसम्भावो ॥५४१॥
सव्यं गाहा । सर्वमेव हि प्रतिसमयं पर्यायतयोत्पद्यते विनश्यति च, द्रव्यतया च नित्यम् । एवं च सुखादिसद्भावो नैकान्तनित्यत्वे सति, अपरिणामत्वादाकाशवत् , नाप्येकान्तानित्यत्वे, अपरिणामादेव जन्मानन्तरमृतवत् । उत्पादादिस्वाभाव्ये तु दुःखितयोपरमति सुखितयोत्पद्यते जीवद्रव्योपयोगादिभिरवतिष्ठते इत्यादि सर्व घटत इति॥५४१॥
अधवा सुत्तं णिव्याणभाविणोऽणातियं सपज्जन्तं ।
जीवत्तं पिव णियतं सेसाणमणातिपज्जन्तं ॥५४२॥
अधवा गाहा । इह मिथ्याश्रुतमङ्गीकृत्योच्यते निर्वाणभाविनो भव्यस्यानादिश्रुतमन्तवच्च, भव्यत्ववत् । अभव्यस्यानाथपर्यन्तं च जीवाऽभव्यत्ववत् ।।५४२॥
खेत्ते भरधेरवता काले तु समाओ दोणि तत्थेव। . भावे पुण पण्णवगं पण्णवणिज्जे व आसज्ज ॥५४३॥
खेत्ते गाहा । क्षेत्रतो भरतैरावतयोराद्यन्तवत् । कालत उत्सर्पिण्यवसर्पिण्योः । भावतः प्रज्ञापकमाचार्य प्रति प्रज्ञापनीयांश्च ॥५४३॥
उवोगसरपयत्ता थोणविसेसा य होन्ति पण्णवए ।
गतिठाणभेतसंघातवण्णसदादिभावेसु ॥५४४॥
उव० गाहा । तत्र वक्तुरनन्यत्वाच्छृतस्य तदुपयोगादिपर्यायैरुत्पद्यते विनश्यति च तथाभिधेयनियन्धनत्वात् , अभिधेयस्य च गत्यादिपर्यायैरुत्पत्तिव्ययस्वभावत्वादिति ||५४४||
दव्वे गाणापुरिसे खेत्ते विदेहाई कालो जो "तेसिं ।
खयउवसमभावम्भि य सुतणाणं बट्टते सततं ॥५४५।। दारं ॥ १ ठाण त । २ गतिट्ठाण हे । ३ तत्र चक्षुर -प्रतौ । ४ कालि त को। ५ तेसु को हेत।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org