________________
संझिश्रुतविवरणम् ।
१०७ थोवा गाहा । इह या हि तत्र' संज्ञा सातिस्तोकत्वान्नाधिक्रियते । न हि कार्षापणमात्रेण धनेन धनवानिति व्यपदेशो युक्तः । आहारादिसंज्ञाश्च भूयस्योऽपि नाधिक्रियन्तेऽनिप्टत्वात् । न हि मृत्तिमात्रसद्भावाद्रूपवानिति व्यपदेशो युक्तः ॥५०४॥ .
जध बहुदव्यो धणवं पसत्यख्यो य रूववं होति । 'महतीय सोभणाएं य तध सण्णी णाणसण्णाए ।।५०५।।
जध गाहा । यथेह बहुद्रव्यो धनवानित्युच्यते, प्रशस्तमूर्तिसम्बन्धाच्च रूपवानिति । एवमिह महती शोभना च संज्ञाऽधिक्रियते-संज्ञानं संज्ञा मनोविज्ञानमित्यर्थः । तत्सम्बन्धात् संजिन इति ॥५०५॥
इह दीहकालिकी [३४-२] कालिकि ति सण्णा जया सुदीई पि । संभरह भूतमेस्सं चिंतेइ य किए णु कायव्यं ॥५०६॥
इह गाहा । इहादिपदलोपा दीर्घकालिकीत्युच्यते । कालिकी चासौ संज्ञा च मुंबद्भावात्कालिकसंज्ञेति' यया सुदीर्घमपि कालमनुस्मरति भूतम्, एष्यन्तं चानुचिन्तयति-कथं तत्र कर्त्तव्यमिति ॥५०६।।
कालियसण्णि त्ति तओ जस्स तई सो य जो मणोजोग्गे ।
खंधेऽणते घेत्तुं मण्णति तल्लद्धिसंपण्णों ॥५०७॥
कालि० गाहा । स कालिकसंज्ञीत्युच्यते यस्यासौ संज्ञी(ञ)ति । स च योऽनन्तान्मनोयोग्यान् स्कन्धानादाय मन्यते । तल्लब्धिसम्पन्न इति मनोविज्ञानावरणक्षयोपशमादिसमेतः ॥५०७॥
रूवे जधोवलद्धी चक्खुमतो दंसिते पयासेण । तध छविधोपयोगो मणदव्वपयासिते अत्थे ॥५०८॥
रूवे गाहा । यथा रूपोपलब्धिश्चक्षुष्मतः प्रदीपादिप्रकाशपृ(पु)प्टेन तद्वत क्षयोपशमलब्धिमतो मनोदव्यप्रकाशपृष्टन(पुष्टेन) मनःषप्टैरिन्द्रियैरर्थोपलब्धिरिति ॥५०८॥
अविमुद्धचक्खुणो जध णातिपयासम्मि रूवविण्णाणं । 'अस्सण्णिणो तधत्थे थोवमणोदव्वलद्धिमतो ॥५०९॥ जैध मुच्छितादियाणं अव्यत्तं सबविसयविण्णाणं ।
एगेन्दियाणमेवं मुद्धतरं बेन्दियादीणं ॥५०९॥१॥ १ तत्राह सं-इति प्रतौ । २ महवीय जे । महईइ त । महईए को है। ३ सोहणाइ य त । सोहगाअय जे। ४ मिस्स को है। ५ अत्र 'यया सुदीर्घमपि कालसंज्ञेति'-इत्यधिकः पाठो वर्तते प्रतौ। ६ भूतमेषां तं चा इति प्रतौ । ७ °णा जे। न ल-इति प्रतौ । ९ असणि को हे। १० कोहेटीक्योरेषा गाथा वर्तते । जेप्रतावस्ति किन्तु स्वोपज्ञवृत्तौ नास्ति सूचनमस्याः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org