________________
भाषाविचारः । दिसि 'चिट्टितस्स पढमोऽतिगमे ते चेव सेसया तिण्णि । विदिसि हितस्स समया [२६-द्वि.०]पंचातिगमम्मि जं दोण्णि ॥३८४॥
दिसि० गाहा । इह चतसृणां दिशानामन्यतमस्यां लोकनाल्या 'बहिरवस्थितस्यैकसमयेनान्तर्नाडीमनुविशन्ति । त्रयोऽन्ये पूर्ववदण्डादि । विदिग्व्यवस्थितस्यानुश्रेणिगमनाद् द्वाभ्यां समयाभ्यामन्तर्नाडीमनुविशन्ति । शेषं च समयत्रयं पूर्ववदित्येवं पञ्चभिरप्यापूर्यते लोक इति ॥३८४॥
चतुसमयमझगहणे तिपंचगहणं तुलाइमज्झस्स । जध गहणे पंज्जंतगहणं चित्ता य सुत्तगती ॥३८५।।
तु० गाहा । अत्र च किल चतुःसमयमध्यग्रहणात् त्रिपञ्चसमयग्रहणमपि प्रत्येतव्यम् , तुलादिमध्यग्रहणवत् । चित्रा च यतः सूत्रस्य गतिरुपलक्ष्यते ।।३८५।। तद्यथा
कत्थइ देसग्गहणं कथयि चेप्पंति णिरवसेसाई । उक्कमकमजुत्ताई कारणवसतो णिउत्ताई ॥३८६।। चतुसमयविग्गहे सति महल्लवंधम्मि तिसमयो जध वा ।
मोत्तुं तिपंचसमए तध चतुसमओ इध णिवद्धो ॥३८७॥
कत्थइ गाहा । [चतुसमय० गाहा] । यथा वा इह सर्वत्र चतुःसमयविग्रहे सति भगवत्यां महावन्धोद्देशके [अष्टमशतक सू ०] त्रिसमयोपदेशस्तद्वदिहापि त्रिपञ्चसमयसम्भवे सति चतुःसमयोपनिबन्ध इति ॥३८६-३ ८७।।
"लोकस्स व कतिभाए कतिभागो होति भासाए ? [३७६]"ति यदपदिष्टं तदिदमुच्यते
होति असंखेज्जइमे भागे लोगस खेत्तगणिएणं ।
भासअसंखेज्जइमो भागो पढमादिसमएसु ॥३८८॥
होति गाहा । इह लोकस्य क्षेत्रगणितमङ्गीकृत्यासंख्येयभागे भाषायाः समस्तलोकभाषापेक्षया खल्वसंख्येयभागो भवति । त्रिसमयादिना प्रथमादिपु समयेपु स एव । शेपेष्वपि संख्येयगुणोऽसंख्येयगुण इति सम्भवतः । अभिन्नानां त्वसंख्येयभाग एवासंख्येयभाग इति ॥३८८॥ ___ यत्तूक्तम् "लोकस्स य चरिमंते चरिमंतो होति भासाए"[३७७]त्ति तदिदमुच्यते
१ विहिजे हे को। २ नाल्यां यदिर -इति प्रतौ। ३ पज्जतं ग० जे। पजन्तग्ग० को। स पदमबिएस । भासा असंखभागो भयणा सेसेसु समयेस । इति तकोहेसंमतः पाठः । ते प्रथमं प्रती लिखित्वा तदुपरि हरतालं दत्त्वा उपरिमुद्रितानुसार संशोधनं कृतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org