________________
भाषाविचारः। तिविधम्मि सरीरम्मि जीवपएसा हवंति जीवस्स। जेहिं तु गेहति गहणं तो भासइ भासओ भासं ॥८॥३७२।। ओरालियंवेउब्धियआहारओ गेण्हती मुअति भासं ।
सच्चं सच्चामोसं मोसं च असच्चमोसं च ॥९॥३७३॥ तिविध० गाहा । ओरालिय० गाहा । त्रयाणामौदारिकादीनां शरीराणामन्यतमशरीरस्थास्ते खल्वात्मप्रदेशा पैगृह्णाति ग्रहणम्, ग्रहणमिति कृत्यलुटो बहुलमिति वचनात्कर्मकारकं कृत्वा वाग्दव्याण्याह । ततो भाषते भाषां यदि च भापको भवति, औदारिकादिभावेऽपि न यस्मात् सर्वदावभाषक इति ॥३७२-३७३॥
सच्चा हिता सतामिह संतो मुणयो गुणा पदत्था वा। तविवरीता मोसा मीसा जा तदुभयसभावा ॥३७॥ अणधिगता जा तीसु वि सदी च्चिय केवलो' असच्चमुसा । 'एया सभेतलवखणसोदाहरणा जचा सुत्ते ॥३७५॥
सच्चा गाहा । अणधि० गाहा । सद्भ्यो हिता सत्या । तत्र सन्तः साधवो मुनयस्तदुपकारिणी भाष्यमाणा सत्या । अथवा सन्तो मूलोत्तरगुणास्तदनुपघातिनी सत्या । अथवा स्तः पदार्था जीवादयस्तद्धिता तत्प्रत्यायनफला जनपदसत्यादिभेदा सत्येति । तद्विपर.तरूपा क्रोधाश्रितादिभेदा मृषेति। तदुभयस्वभावा वस्त्वेकदेशप्रत्याख्यानफलोत्पन्नमिश्रादिभेदात्सत्यमृपेति । तिसृष्वप्यनधिकृता शब्दमात्रस्वभावा आमन्त्रणादिभेदा असत्यामुपेति । एताश्चतस्रोऽपि सूत्रानुवृत्त्या वक्तव्या इति ॥३७४३७५॥
आह- द्वादशभ्यो योजनेभ्यः परं न शृणोति, मन्दपरिणामत्वाद् द्रव्याणाम्' इत्युक्तम् । अथ किं परतोऽपि द्रव्याणां गतिरस्ति ! यथा च विषयाभ्यन्तरतो नैरन्तर्येण तद्वासनासामर्थ्यमस्ति तद्वत् परतोऽपि · इति ? उच्यते- अस्ति केपाञ्चि दालोकान्तात् । आह यद्येवमतः
कतिहि समरहि" लोगो भासाए णिरंतरं तु होति फुडो । लोगस्स कतिभाए [२६०] कतिभागो होति भासाए ॥१०॥३७६॥ चतुहि" समएहि लोगो भासाए णिरंतरं तु होइ फुडो ।
लोगस्स य चरिमंते चरिमंती होति भासाए ॥११॥३७७॥ , 'मिम वि जी जे । 'रम्मो जी को । २ 'लिवेउ' को । ३ गेण्हइ हे त । ५ सच्चो स्चित। ५ ला त । ६ एसा जे त । ७ सव-इति प्रतौ। ८ अणवि-इति प्रतौ । ५ प्रत्ययेन हला-इति प्रतौ । १० भयस्तदावा-इति प्रतौ । ११ कई हिं को हे। १२ °हिं को है । १३ हि को हे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org