________________
सप्तपदार्थी
अथ सर्वेषामात्मनां सुखविषया इच्छा भवति, दुःखविषयश्च द्वेषो भवति । एतयोः सुखदुःखानन्तरमुपन्यस्तयोर्यथाक्रमं भेदानाविष्करोतिइच्छाऽपि साध्यविषया साधनविषया च, द्वेषोऽपि साध्यविषयः साधनविषयश्च ।।७।।
'इच्छा' अभिलाषः, 'द्वेषः' च ज्वलनात्मक आत्मगुणो द्विविधो भवति । साध्यं प्रयोजनं विषयो यस्याः सा 'साध्यविषया' यथा भोजनार्थिनो भोजनविषया । यथा (तथा) 'साधनविषया' । साध्यं भोजनं तत्साधकमन्नादिकं तत्साधनं द्रव्यादिकं तद्विषया इच्छा 'साधनविषया' । तथा दुःखद्वेषिणो दुःखविषयप्रद्वेषः साध्यविषयः । दुःखकारणेषु वैरिवर्गेषु यः प्रद्वेषः स साधनविषय इति ||७७।। अथात्मनिष्ठप्रयत्नमात्मगुणभेदकथनावसरप्राप्तवाद्भिनत्ति
प्रयत्नोऽपि विहितप्रतिषिद्धोदासीनविषयः ।।७८ ।। प्रयतते उत्सहते येन गुणेन स 'प्रयत्नः' उत्साह इत्यर्थः । स त्रिविधो भवतीति गम्यते । विहितः शास्त्रे करणीयत्वेन प्रतिपादितो धर्महेतुर्विषयो यस्य स 'विहितविषयः' । 'विषय' शब्दस्य प्रत्येकमभिसम्बन्धात्; यथा देवयात्रादिनिमित्तमुद्यमः । प्रतिषिद्धः शास्त्रेऽकरणीयत्वेन प्रतिपादितः पापहेतुर्विषयो यस्य स 'प्रतिषिद्धविषयः' यथा परदारादिगमनचौर्यादिकरणमुद्यमः । उदासीनो न विहितो नापि निषिद्धो विषयो यस्य स उदासीनविषयो यथा शरीरकण्डूयनाद्यर्थं हस्तचालनादिप्रयत्नः तस्य शास्त्रेषु करणीयाकरणीयत्वाभ्यामप्रतिपादनात् पुण्य-पापयोरहेतुत्वाच्च ।।७८ ।।
सूत्रकारकण्ठोक्तान् सप्तदशगुणानभिधाय 'च' शब्दसूचितान् सप्त वक्ति। यथा प्रयत्नः कर्मणो हेतुस्तथा गुरुत्वमपि कर्मणो हेतुरिति ज्ञापनार्थं प्रयत्नानन्तरमुपन्यस्तं गुरुत्वं भिनत्ति
गुरुत्वं समाहाररूपमेकावयविनिष्ठं च ।।७९।। 'गुरुत्वं' भारापरपर्यायं द्विधा भवतीति गम्यते । सम-सामस्त्येन आहरणमेकत्र' मेलनं बहूनां वस्तूनामस्मिन्निति समाहारस्तद्रूपं तत्स्वभावम्, यथा लघूनामप्यर्कतूलादीनां वस्तूनां सम्मेलनाद् भारो भवति तत् 'समाहाररूपं गुरुत्वम्'। एकस्मिन्नवयविनि लोहलोष्ठादौ निष्ठा यस्य तद् एकावयविनिष्ठ, तस्यैकस्यापि बहुभारत्वात् ।।७९।। अथ कर्मण: कारणत्वेन गुरुत्वेन सह समानताख्यापनार्थं तदनन्तरमुपन्यस्तं द्रवत्वं विभजते
द्रवत्वं सांसिद्धिकं नैमित्तिकं च ।।८।। संसिद्धेः स्वभावाद्भवं 'सांसिद्धिकं' जलपरमाणुषु समवेतं नित्यम् । अनित्यं अनित्यजलेषु ।
१. निषिद्धो क. नि. । २. आहारण अ. १ । ३. अवयवित्वं नाम किम् ? स्वस्वरूपाऽतिरिक्ताऽवयवा
ऽनपेक्षत्वम् अवयवित्वं, तस्मिन, अ. १ पा. टि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org