________________
३२
सप्तपदार्थी
लगदस्तीति निर्विकल्पकं ज्ञानं सामान्याकारेण भवति । तदपि प्रमायामन्तर्भवति, विद्यमानस्य वस्तुन एव ग्राहकत्वात् । एतयोश्च क्वचिदप्रमायामप्यन्तर्भावः यथा मरुमरीचिकायां निर्मलसलिलपरिपूर्णमुपलभ्यत इदं सरोवरमिति सविकल्पकम् । तथा निःपदार्थे व्योम्नि चक्षुःसञ्चारकस्य किञ्चिद्वस्तु अत्रास्तीति उल्लेखि ज्ञानं निर्विकल्पकम् अप्रमायामन्तर्भवति निर्गोचरत्वात्तयोरिति ।।७२ ।।
___ एवं प्रत्यभिज्ञा-हानोपादानोपेक्षाज्ञानानामपि' ।।७३ ।। तत्तेदन्ताविशिष्टं पदं 'प्रत्यभिज्ञा' । यथा स एवायं देवदत्त इति । 'हानं' त्यागबुद्धिः । 'उपादानं' ग्रहणबुद्धिः । 'उपेक्षा' उदासीनबुद्धिः । एतेषामपि क्वचित्प्रमायामन्तर्भावः क्वचिदप्रमायां च ।।७३।।
ननु ऊहानध्यवसायौ बुद्धिविशेषौ वर्तेते तौ चाप्रमाया भेदत्वेन न्यायवादिभिरेव किमिति पृथग् नोक्तावित्याशङ्कामधरीकरोति
ऊहानध्यवसाययोस्तु संशय एव ||७४।। अन्तर्भाव इति पूर्वस्मादनुवर्तते । ऊहनम् 'ऊहः' वितर्कः सम्भावनमित्यर्थो यथा निर्मनुष्येऽरण्ये ऊर्ध्वस्थेन स्थाणुनाऽनेन भवितव्यमिति ज्ञानम् । अध्यवसीयते निश्चियते वस्त्वनेनेत्यध्यवसायो निश्चितं ज्ञानम् । तद्विपरीतः ‘अनध्यवसायः' यथा किंसझकोऽयं वृक्ष इत्यादि । एतौ च संशय एवान्तर्भवत इति संशयग्रहणेनैव गृहीताविति न पृथगुपात्तौ, अनवधारणात्मकत्वाविशेषादिति ।।७४ ।। बुद्धेर्भेदान् प्रभेदांश्चाभिधाय सर्वेषामात्मनामतीव इष्टत्वाद् आदावुपन्यस्तं सुखं भिनत्ति
सुखं तु सांसारिकं स्वर्गश्च ।।५।। संश्रीयते-बम्भ्रम्यते मनुष्य-पश्वादिषु योनिषु अस्मिन्निति संसारः । तत्र भवं 'सांसारिकम्', सुकृतोपनीतस्रक्चन्दनाङ्गनादिभोगजन्यम्। 'स्वर्गः' ऊर्ध्वलोकः तत्रेच्छामात्रेण मनोवाञ्छितार्था सर्वेऽपि सिद्ध्यन्ति । स्वर्गग्रहणेन स्वर्गस्थानजन्यं सुखं लभ्यते, स्थान-स्थानिनोरभेदोपचारात् ।
तच्च मनुष्यादिसुखादत्यन्तमतिशायित्वात् पृथगुक्तम् । न तु मोक्षे सुखमस्ति, तेन तन्नोक्तम् ।।७५।। अथ सुखविपरीतं दुःखं भिनत्ति
दुःखमपि दुःखकारणमात्रप्रभवम् ।।७६ ।। 'दुःख' प्रतिकूलवेद्यमात्मनोऽरोचमानमेकप्रकारमेव भवति । दुःखकारणानि शरीरादीनि, तन्मात्रं प्रभव उत्पत्तिस्थानं यस्य तद् ‘दुःखकारणमात्रप्रभवम्' । 'मात्र' शब्दोऽपरप्रकारनिरासार्थः ।।७६ ।। १. ज्ञानमपि अ. १, अ. २ । २. 'तु' क, नि. पुस्तकयो स्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org