________________
५४
अथ कर्म ।
641
लक्ष्मणकृतः
कर्म प्रधानतामेति न शुभग्रहवीक्षणम् । वसिष्ठदत्तलग्नोऽपि
Jain Education International
रामः प्रव्रजितो वने ॥ १
642 कर्मणामतिवैचित्र्यात्कालस्यानन्तसंततेः । इन्द्रत्वं वा कृमित्वं वा कैर्नाभ्यस्तं गतागतैः ॥ २ 643 यदि क्रियते कर्म तत्परत्रोपतिष्ठते ।
मूलसिक्तेषु वृक्षेषु फलं शाखासु जायते ॥ ३ 644 रत्नाकरः समुद्रोऽभूत् कामहा परमेश्वरः । नरवाहनस्तु धनदो तत्कर्मैकविशकतः ॥ ४ 645 मन्यामहे महच्चिह्नं कर्मणः प्राक्तनस्य तत् । यदपथ्यमुजामायुस्तथाऽनीतिमतां त्रियः ॥ ५
646 मासि मासि समा ज्योत्स्ना पक्षयोरुभयोरपि । तत्रैः शुक्कतां प्राप यशः पुण्यैरवाप्यते ॥ ६ 647 पश्चभिः कामिता कुन्ती वधुस्तस्यास्तु तादृशी । तथाऽपि कथ्यते साध्वी यशः पुण्यैरवाप्यते ॥ ७ अथ सुरतम् ।
648
आस्तां दूरेण विश्लेषः प्रियमालिङ्गतोऽपि मे । स्वेद : किं सरिन्नाथो रोमाञ्चः किं नु पर्वतः ॥ १ 649 किं वा लोना विजीना वा प्रसुप्ता वा मृताऽथवा । परिष्वक्ताऽपि कुरुते मम शङ्काशतं प्रिया ॥ २ अथ दयितस्यागमनम् ।
650 न जाने संमुखायाते प्रियाणि वदति प्रिये । सर्वाण्यङ्गानि किं यान्ति नेत्रतामुत कर्णताम् ॥१ 651 वल्लभागमनानन्दनिर्भरे हृदये सति ।
वद कुत्रावकाशोऽस्ति मानस्य मम साम्प्रतम् ॥२ 641. प० न शुभग्रहवोक्षितुम् ॥
642
प०
केनाभ्यस्तं गतोगतैः ॥ 647 ख प्रतौ न विद्यते ।
648 ख० किन्नः । प० प्रतिस्त्रसमाप्ताः । प० प्रतौ पुष्पिका भद्रम् ॥ ठ | ग्रन्थानं ६८० ॥ शुभं भवतु सर्वदैव साधुलोकस्य ॥
For Private & Personal Use Only
www.jainelibrary.org