SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ सूक्तिरत्नकोषः अथ प्रभातम् । 630 ततोऽरुणपरिस्पन्दमन्दीकृतवपुः शशी । दधे कामपरिक्षामकामिनीगण्डपाण्डुताम् ॥१ 631 निशाङ्गना पश्यतो मे कृता हृततमःपटा । पूष्णः करैरितीवेन्दुः प्रातर्विच्छायतामगात् ।।२ 632 कुरुते यावदेवेन्दुर्दिनश्रीमुखचुम्बनम् । संप्राप्ते तत्पती तावत्याण्डुच्छायस्तिरोभवत् ॥३ अथ प्रदोषः । 633 अतिपीतां तमोरानी तनवः सोढुमक्षमाः । वमन्तीव शनैरेते प्रदीपाः कज्जलच्छलात् ॥१ 634 अन्धत्वमाहितं मन्ये तमप्ता दीपकेष्वपि । अतो हस्तधृता स्त्रीभिः सञ्चरन्ति गृहे गृहे ॥२ 635 करसादोऽम्बरत्यागस्तेजोहानिः सरागता । वारुणीसङ्गजावस्था भानुनाप्यनुभूयते ३॥ 636 विलोक्य संगमे रागं पश्चिमाया विवस्वतः । कृतं कृष्णं मुखं प्राच्या नहि नार्यों विनेग्रंया ।।४ 637 लिम्पतीव तमोऽङ्गानि वर्षतीवाजनं नभः । असत्पुरुषसेवेव निष्फलवं प्रयाति दृक् ॥ ५ [मृच्छकटिक,१,३,४] 638 अविज्ञातविशेषस्य सर्वतेजोपहारिणः । स्वामिनो निर्विवेकस्य तमसश्च किमन्तरम् ॥६ 639 निशाकरकरस्पर्शहर्षोन्मीलिततारका । अहो रागवती सन्ध्या मुञ्चति स्वयमम्बरम् ॥ ७ अथ श्रीः । 640 पायात्पयोधिदुहितुः कपोलामलचन्द्रमाः । यत्र संक्रान्तबिम्बेन हरिणा हरिणायितम् ॥१ 631. ख० दिगाङ्गना । प० हृततपःपयः ॥ 638 ख प्रतौ न विद्यते ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002653
Book TitleSuktiratnakosa
Original Sutra AuthorN/A
AuthorLakshman, Nilanjana Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy