________________
सूक्तिरत्नकोषः
[ग्रन्थकार-प्रशस्तिः] 652 विप्रः श्रीसर्वदेवाह्व उदोच्यानां कुलेऽतुले ।
कलाकलापवान् जज्ञे द्विजराज इवार्णवे ।। १ 653 शुद्धपक्षद्वयस्तस्य सुतो हंसाभिधोऽभवत् ।
तत्पुत्रोऽत्युत्तमाह्वानः प्रधानः पुण्यकारिणाम् ॥ २ 654 समनायत तज्जाया न्यायिनी न्यायशालिनी ।
श्रद्धाधीयत(?)सीताऽपि सा यस्याः शीललोलया ॥ ३ 6:5 तयोः सूनुस्य दक्षो लक्ष्मणाख्योऽस्ति दोक्षितः ।
न क्वचित् क्रूरया दृष्टया क्रोधयोधेन वीक्षितः ।। साभिप्रायस्त(यत)या यस्मिन् सर्वाः सूक्तोर्वितन्वति ।
सकृत् विस्मितचित्तः सन् हपत्येव मृतोऽपि हि ॥ ५ 657 अथ चेत् चेतनावानप्येताभिर्न हसेत् स्वतः ।
ततः स तत्वतः सत्यं मृत एव श्वसन्नपि ॥ ६ 658 कण्ठशोष करैः किं वाऽपरैः प्रलपितैरपि ।
मूर्तिमानिव यो हास्यरसो धात्रा विनिर्मितः ॥७ 659 तेनायं सुतिरत्नानां साकोशः समसूत्र्यत ।
पठ्यनां कृतिभिस्तावद्यावदिन्दुदिवाकरौ ॥ ८ *
* ख प्रतिरत्र समाप्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org