SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ 9 स शिवः पातु वो नित्यं विशिखानलदीपितम् । आरात्रिकमिव भ्रान्तं यस्योपरि पुरत्रयम् ॥२ 10 पायाद्वः शितिकण्ठस्य तमालश्यामलो गलः । संसक्त पार्वतीबाहु सुवर्णनिकषोपलः ॥३ लक्ष्मणकृतः 11 पायाद्वः शितिकण्ठस्य कण्ठः श्यामाम्बुदोपमः । गौरी भुजलता यत्र विद्युल्लेखेव राजते ॥४ 12 स धूर्जटिजटाजूटो जायतां विजयाय वः । यत्रैकपलितभ्रान्ति करोत्यद्यापि जाह्नवी ॥५ 13 बलम्बितजटानालमुद्यदिन्दुकलाङकुरम् ॥ चराचरसमुत्पत्तिबीजं जयति धूर्जटिः ||६ 14 लग्नः शिरसि शीतांशुर्मग्ना वपुषि पार्वती 1 स्मरामिव यस्याजौ स स्मरारिपुनातु वः ॥७ 15 स शिवः वो शिव दद्याद्यन्मूर्धिन विकटा जंटाः । गङ्गासलिलसेवालमाला लीलां वितन्वते ॥८ 16 सगजास्येन्दुनन्दिस्तादगजास्येन्दुनन्दि वः । अनङ्गदाहि माहेश साङ्गदाऽहिमुदे वपुः ॥९ 17 चाटुमन्त्राक्षर कण्ठे करे कुचकमण्डलुम् । बिभ्रतः पार्वतीभर्तुरहो व्रतमखण्डितम् ॥१० 18 स्तनौ तुम्बीफलद्वन्द्वं कृत्वेवोरसि पार्वती । अगाधं मानसं शंभोर्विविक्षुरिव लक्ष्यते ॥ ११ ॥ 19 स वः पातु शिवः शश्वत् यत् प्रपञ्चमहोदधौ । उन्मज्जन्ति विपद्यन्ते ब्रह्माद्या बुदबुदा इव ॥ १२ 9 प. प्रतौ 'यस्योपरि' शब्दानन्तरं पत्रं खण्डितम् । 10 प. प्रतौ 'पायाद्वः' श्लोकभागः पत्रस्य खण्डितत्वान्नष्टः इति । 13 प. प्रतौ पत्रस्य खण्डितत्वात् अस्य श्लोकस्य पूर्वार्ध 'दिन्दुकला' इतिपर्यन्तः नष्टः । 14 प. प्रतौ श्लोकस्य उत्तरार्धे 'यस्या' इतिशब्दानन्तरं श्लोकभागः नष्टः । 15 प. प्रतौ पत्रस्य खण्डितत्वात् आद्यः 'स' इति वर्ण: नष्टः । 16 प. प्रतौ उत्तरार्धे 'अनङ्गदाहि माहे' इति श्लोकभागः नष्टः । 18 प स्तने । प. प्रतौ 'वोरसि पार्व' इति पर्यन्त: श्लोकभागः नष्टः । 'प्रवेशमिच्छु' इति टिप्पणी प. प्रतौ ॥ 19 ख. उत्पद्यन्ते विपद्यन्ते । 'अनवरत इति प. प्रतौ - टिप्पणी ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002653
Book TitleSuktiratnakosa
Original Sutra AuthorN/A
AuthorLakshman, Nilanjana Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy