SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ लक्ष्मणकृतः सूक्तिरत्नकोषः नम : सरस्वत्यै ।* 1 सूक्तरत्नसुधासिन्धुं ध्यात्वा श्रीश्रुतदेवताम् । सूकतानां सङ्ग्रहं चक्रे लक्ष्मणो लक्षसूक्तिकः ॥ १ अथ जिनस्तुतिः जिन: स पातु नामेयो येन चामीकरछविः । क्षिप्तो विशुद्धये कायस्तपस्तीव्रहुताशने ॥१ 3 चित्रं यत्रापरागेऽपि केवलज्ञानभास्करः । मनसमुदयं धत्ते जिनेन्द्रः सोऽस्तु नः श्रिये ॥२ जिनः स जयतादेवः संसारलवणार्णवे । तपसा ज्वलता यस्य वाडवज्वलनायितम् ॥३ नामेयः पातु वो यस्य केवलज्ञानदर्पणे । अमूर्तान्यपि विश्वानि भान्ति व्यवहितान्यपि ॥४ श्रीमतो वृषभस्यास्तु दर्शनं मङ्गलाय वः । यद्गवीब्रह्मनिध्नापि परं वृषमसूयत ॥ ५ ।। सागसामिव केशानां दशमद्वाररोधिनाम् । यः समुन्मूलनं चक्रे स वीरः पातु वो जिनः ॥६ 8 स शिवः पातु वो नित्यं गौरी यस्याङ्गसंगता। माश्लिष्टा हेमवल्लीव राजते राजते द्रुमे ॥१ नमः सर्वशाय । ख. प्रतौ अयं श्लोकः तृतीयः वर्तते ॥ 4 ख. जयतां देवः। 5 लोकस्य पूर्वाधः पप्रतौ पत्रस्य खण्डितत्वान्नष्टः । पप्रती 'ब्रह्मा' इति शब्दानन्तर पत्रं खण्डितमतः लोकभागस्तत: परो नष्ट: । .7 प. 'दशमद्वाररोधेन केशानां सागसामिव' । 'सापराधानामिव' इति प.प्रतो टिप्पणी । 8 प. प्रतौ शिव इति शब्दानन्तर पत्र खण्डितमतः 'पातु...... समता'पर्यन्तः लोकभागः नष्ट: । रूप्यमे इति प.प्रती टिप्पणी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002653
Book TitleSuktiratnakosa
Original Sutra AuthorN/A
AuthorLakshman, Nilanjana Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy