________________
१०३ यान्तम् एकाचनम् । ९ प्र+उषा+इन्धू-प्रोषेद्+ई+प्रदीपाङ्कराः प्रोषेदीप्रदीपाकुराः=प्लोषेदीप्रदीपाकुराः । १० ० कुराः+अ= ङ्कुराय । अ' वाक्यालंकारे । ११ ते प्रथमाबहुवचनम् । ]..
व्याख्या—हे प्लोषेदीप्रदीपाङ्कुराः ! प्रकृष्टां प्रकर्षेण वा उषां रात्रि इन्धयतीति क्विपि प्लोषेत् ईदृशा या ई लक्ष्मीस्तया युक्ताः प्रदीपाङ्कुराः प्रदीपाः-'अ' इति वाक्यालंकारे-ते प्रसिद्धा यूयम् 'शीलभञ जीत्येकवचने पतङ्गम् 'उह तुह दुह अर्दने' [५६१] परोक्षायुष्मदर्थबहुवचने--ऊह पीडयथ स्म इत्यर्थः । श्लेषादनुस्वाराभावः । ते के ? इत्याह-सिद्धास्तजःश्रिया प्रसिद्धाश्च ते, ये च सिद्धये यूयम् आत्ताः-स्वीकृताः आफूर्वाद् "उपसर्गादातः"५ । ३ । ११०] इति अङि आम्ला-म्लानिर्याभिस्ता आत्ताम्लाः । ई पृथ्वी तस्या अन्नमिवान्नं जीवनं प्रकाशकत्वेन पृथिव्यास्तज्जीवनत्वात् एवंविधाः खमण्डल्यः सूर्यबिम्बानि ता अन्नखमण्डलीः प्रति लक्षीकृत्य अनन्ति जीवन्तीति क्विपि “अहन्-पञ्चम०" [४ । १ । १०७] इति दीर्धे आनो जीवन्तो निज तेजोरूपेण विद्यमानाः स्त-वर्तध्वम् । कथम् वो वातः, तस्य अभावोऽवम् वाताभावः-तेन ऋद्धं समृद्ध कान्तिमत्तया यथास्यादेवमित्यर्थः ॥९८॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यहशलभप्लोषे दीपदीपाङ्करायते ॥९९॥ [ 'सिद्धये वैधमानः स्तात् ताम्रायन्न खमण्डली ।
प्रत्यूहशलभप्लोषे ! दीपदीपाकुरायते ! ॥९९॥ ] [१ चतुर्थ्यन्तम् । २ प्रथमान्तम्- शराववाचकं पदम् । ३ क्रियापदम् । ४ ताम्र+ अस ताम्रास-ताम्राः । ५ यन्न+ख+मण्डल-यन्नखमण्डल+इन्-यन्नखमण्डली । ६ प्लोष+अच+ आ-प्लोषा । प्रत्यूह शलभ+प्लोषा-प्रत्यूहशलभप्लोषा । अस्य संबोधनम् प्रत्यूहशलभप्लोषे । ७ दीप्र+दीप+अङ्कुर+आयति-दीप्रदीपाङ्कुरायतिः अस्य संबोधनम् दीप्रदीपाङ्कुरायते ! । ]
व्याख्या हे दीप्रदीपाङ्करायते ! दीप्रा दीप्यमाना ये दीपाङ्करास्तेषामायतिर्विस्तारः श्रेणिरिति यावत् तस्याः सं० । तथा हे प्रत्यूहशलभप्लोषे प्रतिकूलो दीपे स्वर्णभ्रान्तिकरः ऊहो वितर्को येषां ते प्रत्यूहा ये शलभाः पतङ्गास्तान् प्लोषतीति अचि प्रत्यूहशलभप्लोषा तस्याः सं० “एदापः" [१ । ४ । ४२ ] इत्येवम् । वर्धमानः शरावः सिद्धये निष्पत्तये स्तात्-भवतु-युष्माकमेवेति सम्बन्धः । दीपा हि प्रायः शरावे एव क्रियन्ते । वर्धमानः किं० ताम्रो रक्तवर्णस्तेन असति शोभते क्विपि ताम्राः शरावो रक्त
१ अत्र ‘शलभम् -जात्येकवचने-पतङ्गम्' इति पाठः साधुः । .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org