________________
द्वत् प्रतापेन अससि शोभते क्विपि आः प्रतापेन कृष्णसमः इत्यर्थः । अत्र कुरशब्दाs कारेण सन्धौ अग्रस्थे स्वरे "रोर्यः" [१। ३ । २६] इति यत्वे कुरायते इति सिद्धम् । त्वं किं० 'षिधू गत्याम्' [३२०] सेधतीति क्विपि सित् शीघ्रगामुकम् यत् हयाश्च इभाश्च "सेनाऽङ्ग-क्षुद्रजन्तूनाम्" [३।१ । १३४] इति समाहारे हयेभम् तत् निजसैन्यतया-आचष्टे इति णिजि क्विपि भस्य बत्वे सिद्धयेब् । पुनः किं अर्दः-अब्जातं करोति णिजि क्विपि अर्त्त याचकजनः तस्य हो हस्तः तत्र मानः पूजा यस्मात् स अर्धमानः । पुनः किं० खे नभसि मङ्गन्ति गच्छन्ति क्विपि खमङ्गः पक्षिणः, तान्ड-लयोरैक्यात्-लाति गृह्णाति वधार्थम् “आतो डा०" [५ । १ । ७६] डे खमण्डो हिंस्रजनः तं लीयते- श्रयति इति क्विपि खमण्डलीः नो निषेधे, कथं ? नपापिजनसङ्गवर्जित इत्यर्थः । रायम् किं० ? प्रदीप्यते "नाम्युपान्त्य ०" [५।१ । ५४] इति के प्रदीपां दीप्यमानाम् । क्व विषये ? ऊहिंसा, तस्याम् ऊहो विचारो येषां ते ऊहा ईदृशा ये शरैर्बाणैर्भान्ति "आतो डः०" । [५ । १ । ७६] इति डे शरभाः सुभटाः ऊहाश्च ते शरभाश्च ऊह-शरभाः प्रतिकूलाश्च ते ऊह-शरभाश्च प्रत्यूहशरभास्तेषां प्लोषे विनाशे--अयमर्थः-- निजप्रतिपक्षभूतसुभटविभेदे दीप्रामिति ॥९७॥
इति एकार्थेन राजानं व्यावण्य प्रदीपं वर्णयति-तथाहि--
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाङ्करायते ॥९८॥ [ सिद्धयेऽवर्धमानस्ताऽऽत्ताऽऽम्रार्यन्नखमण्डली ।
प्रत्यूह शर्लभं प्लोषेद्-ईप्रदीपाङ्कराय ते"॥९८॥] [१ सिद्ध+यत्-विशेषणसमासे प्रथमाबहुवचने सिद्धये । अत्र 'यत्' इति सर्वनाम । २ अव+ ऋद्धम्+आनः अवर्धमानः अत्र अवर्धम्' क्रियाविशेषणम् । सिद्धये अवर्धमानः सिद्धयेऽवर्धमानः । ३ आनः प्रथमाबहुवचनम् 'अन्'शब्दस्य, 'दीपाकुराः' इत्यस्य विशेषणम् । ४ स्त युष्मत्पुरुषबहुवचनम् पञ्चम्याम् । ५ आत्ता+आम्लाः आत्ताऽऽम्लाः प्रथमाबहुवचनम् । ६ अन्न+खमण्डली= अन्नखमण्डलीः द्वितीयाबहुवचनम् । आत्ताऽऽम्लाः+अन्न०आत्ताम्लायन्न । स्त+आत्ताम्लायन्न स्ताऽऽत्ताऽऽम्रायन्न० । ७ प्रत्यूह 'ऊह' धातोः परोक्षायां बहुवचनम्-प्रत्यूह यूयम् । ८ द्विती
१ कुर+अस्-कुसस्+अते-इति अवस्थायाम् 'कुरास्' इत्यस्य सस्य रुत्वे ततः 'रोयः' इति सूत्रं प्रवर्तते । २ प्रतो अयं पाठः अस्पष्टः । नास्य 'अब्जा'शब्दस्य भावः अत्र प्रतीयते । 'अर्द गतियाचनयोः' [३०१] इंति धातोः याचनार्थः 'अर्द' शब्दः संभवी । अत्र प्रस्तुतसंदर्भानुसारेण अर्दः याञ्चा' इति पाठः अत्र भवितुं योग्यः । 'अर्दो याञ्चा' इत्यस्य लेखकेन 'अर्दोऽब्जा' इति लिखितं भवेत् इति कल्पना । ३ हिस्रजनं न श्रयति-पापिजनसङ्गवर्जितः-इति भावः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org