________________
२०२
लीलावतीसारे
[११६-१२९ अनन्तरभवेऽप्यासीद् यत् ते दुःखं किमप्यहो । तदनन्ततमे भागेऽप्येतद् दुःखं न वर्तते ॥११६ यतस्त्वयाऽप्रतिष्ठाने महादुःखमनुक्षणम् । त्रयस्त्रिंशिसागराणि निरन्तरमसह्यत ॥११७ ततश्चान्तर्मुहूर्तायुमत्सीगर्भे झषोऽभवः । ततोऽभूरप्रतिष्ठाने त्रयस्त्रिंश्यब्धिजीवितः ॥११८ षट्पष्टि सागराण्येवं दुखं सोढ़वा निरन्तरम् । अजीर्णदुष्कर्मशेषाच्छनीगर्भमुपागमः ॥११९ कालाज्जाता कालशुनी तद्बाल्येऽमृत तत्प्रसूः । दुर्दान्ताभीरडिम्भैः सा योध्यते स्म श्वपोतकैः ॥१२० तत् तीक्ष्णदन्तनखरप्रहारैर्दारितानिका । क्षुत्तष्णार्ता मृता जज्ञे राष्ट्रवर्धनपत्तने ॥१२१ आजन्मनिःस्वतासद्मयोगराजाख्यवण्ठतः । माहिलस्य गृहदास्यां चौर्यागःकृत्तनश्यथ (?) ॥१२२ त्वग्दोषदूषिताङ्गयां च प्राजनिष्ट भवान् सुतः । तदोषात् प्राच्यदुष्कर्मशेषतश्चेति कुष्ठयभूः ॥१२३॥ त्रिभिर्विशेषकम् कुष्ठयाह भगवन् केन कर्मणा भवपञ्चके । दुःखीत्यभूवं प्रसद्याविष्कुरु ज्ञानभास्कर ॥१२४ सू रिरूचे भद्रमुख त्वमत्रैव हि भारते । श्रीकाञ्चनपुरस्वामिनभोवाहनभूपतेः ॥१२५ देव्याः कनकमञ्जर्याः पुत्रोऽभूः कनकध्वजः । मातापितृभ्यां मेने स स्ववंशालकृतिध्वजः ॥१२६॥ युग्मम् स च राक्षसवन् मांसप्रियो हिंसापरायणः । गोलिकाधनुषा पक्षिकुलं विव्याध शैशवे ॥१२७ श्येनैः शकुन्तशकुनिमुखानाकाशचारिणः । जालैः . कच्छपमत्स्यादींश्चाग्रहीज्जलचारिणः ॥१२८ मृगादीनां च मृगयां स्वयं मृगयुभिस्तथा । निर्मिमाणः स नातृप्यद् भस्मकव्याधिमानिव ॥१२९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org