________________
लीलावतीसारे
[१४५-१५८ दूरपातखरक्षोणिघाताभ्यां मूर्छितोऽधिकम् । आयुःप्राबल्यतः प्राणैर्मुमुचे स परं न हि ॥१४५ सूर्यतापगलत्स्वेदशीतवाताप्तचेतनः । किञ्चिदुन्मील्य नयने स वराको यशोरविः ॥१४६ शून्यशून्या दिशः सर्वा यमस्यापि भयंकराः । स्वमङ्ग च जलचरदंष्ट्राव्रणशतोल्वणम् ॥१४७ विलोक्य संस्मरन् प्राच्यां प्रमोदविवशां दशाम् । प्रादुःषदुःखसंभारविह्वलो व्यलपीदिति ॥१४८॥ त्रिभिर्विशेषकम् हा तात हा मातरेतद् युवाभ्यां वीक्ष्य वारितः । कियन्नाहं परं नास्थां पापे पापं ततोऽपतत् ॥१४९ तदिदानी कथं तात निस्त्राणः शरणोज्झितः । आकाशात् पतितो भूम्याः प्रतीष्टो भविताऽस्म्यहम् ॥१५० यदितो येन केनापि दैवाद् वार्धेः खगात् ततः । रक्षितोऽहं कथमपि रक्षिष्यति स एव माम् ॥१५१ इति किञ्चिदवष्टभ्य धैर्य तृष्णाक्षुधातुरः । त्वरितं जलमन्वैषीदद्राक्षीच्च सरोवरम् ॥१५२ तत्र प्रक्षाल्य गात्रं स निपीय मधुरं पयः । रम्भादाडिमनारङ्गफलान्यास्वाद्य निर्भरम् ॥१५३ पूगीफलैलाकर्पूरनागवल्लीदलानि च । सम्मान्य कोटरोत्सङ्गे विशश्राम श्रमच्छिदे ॥१५४॥ युग्मम् रत्नकर्पूरककोललवङ्गलाः सचन्दनाः । कथं नये दोःसखोऽहमिति लोभाद् विचिन्तयन् ॥१५५ यावत् तस्थौ तावदेतां कुतोऽप्यत्र नरावुभौ । भाषितौ रविणा भो भोः को युवां किमिहागतौ ॥१५६॥ युग्मम् तावूचतुर्मूलिकार्थमेताभिः किं करिष्यथः । रसायनं विधास्यावो येन स्यावाजरामरौ ॥१५७ कुरुतं .. मामपि रसायनेनैवाजरामरम् ।
इत्युक्ते रविणा धूर्ती दध्यतुस्तावयं पशुः ॥१५८ १५१.१. यदिता. १५१.२. देवाद् .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org