________________
१३९
१३१-१४४]
षष्ठ उत्साहः तमालश्यामलाङ्गोऽथातिभयङ्करदर्शनः आचचक्षे सोऽन्तरिक्षे प्रत्यक्षो राक्षसाकृतिः ॥१३१ . रे रे पापा न जानीथ वसुमित्रं निरागसम् । युष्माभिरेव प्रहतं सोऽहं जज्ञे सुरोत्तमः ॥१३२ युष्मासु यदहं कुर्वे तत्सर्वमतियुक्तिमत् । कृते प्रतिकृतं कुर्यात् पटहो ह्येष सर्वतः ॥१३३ ऊचुस्ते शाधि तं देवादश्चक्रे येन केनचित् । नह्यन्यनिर्मितान्यायान्निग्राह्योऽन्यतरः क्वचित् ॥१३४ येन चक्रे विपत्तिस्ते देव वेत्सि त्वमेव तम् । तत् तं विना नाथ शेषान् रक्ष रक्ष निरागसः ॥१३५ ततस्तद्वचनैर्दीनदीनैर्देवः प्रसेदिवान् । अन्येषामभयं दत्वाऽग्रहीत् तं स्वरिपुं रविम् ॥१३६ सप्ततालं तमुरिक्षप्य निराधारं मुमोच सः । नरकान् सप्तानाधारो यात्वसाविति तु ब्रुवन् ॥१३७ समग्रमपि तं पोतं क्षणान्नीत्वाऽर्पयत् पितुः । तस्मै स्ववृत्तं चारव्याय स देवोऽगात् स्वमास्पदम् ॥१३८ कृत्वा तदङ्गसंस्कारं बाष्पव्याप्तेक्षणः पिता । पोतश्रिया पुत्रहेतोर्धर्मस्थानान्यचीकरत् ॥१३९ दत्वा यथोचितं तेन प्रेषिताः पोतवाणिजाः ।। जसादित्याय जगदुः साश्रु सवीं कथां रवेः ॥१४० तदौर्ध्वदेहिकं चक्रे सोऽपि सास्रविलोचनः । धिग लोभाद् रविणा चक्रे पुत्रशोको द्वयोरपि ॥१४१ स च पापो रविस्तेन क्षिप्तो दुस्तरसागरे । दोभ्यां तरन् दैवगत्याऽग्राहि भारुण्डपक्षिणा ॥१४२ समुद्रतीरस्थवृक्षस्थनीडं तं नयन्नयम् । भारुण्डपक्षिणाऽन्येनादर्शि क्षुत्क्षामकुक्षिणा ॥१४३ तद् भक्ष्यहेतवे युद्धं चञ्चूचञ्चवि कुर्वतोः ।
तयोः पपात स रविदृषत्कठिनभूतले ॥१४४ १३२.३. प्रहनं. १४०.४. सासु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org