________________
हैमनाममालाशिलोञ्छदीपिका
४३
सम्फेट इति भरतः । पृषोदरादित्वात् साधुः । णके स्फेटकोsपि । सहुरि : दन्त्यादिरयम्, हान्त्रम्, असुरिः, घासिः, गुबेरम्, युध्मः तल्पम् च । बले द्रविणमूर्क तथा ।
बलति अनेन बलम् । पुंक्लीबः । " वर्षादयः क्लीबे" [ ५।३।२९] इतिअल्' । तत्र । “द्रु गतौ " द्रवति द्रविणम् । "दुहृवृहिदक्षिभ्यः इणः [ उ. १९४ ] इति इणः । " ऊर्जणू बलप्राणनयोः " ऊर्जयतीति ऊर्क् । “दियुद्ददृ०" [५|२| ८३] इति क्विप् । “ रात् सः " [ २|१|९० ] इति नियमादत्र संयोगान्तलोपो नास्ति । परीरम् ऋजीकम्, माहिनम्, ताविषम्, तविषम्, दृप्रः च । अवस्कन्दोऽपि धाटयां स्यात्,
“स्कन्दुं गतिशोषणयोः " अवस्कन्दनम् अवस्कन्दः । अल । अवस्कन्दन्ति अत्र वा । अच् । धावन्तोऽयन्ति अस्यां घाटिः । पृषोदरादित्वात् साधुः । याम् घाटी, तस्याम् ।
नश्यते नशनम् । “अनट् ” [५|३|१२४] यनम्, तत्र । “उपसर्गस्याऽयौ” [२|३|१००] रेफस्य लत्वम् ॥७०॥
चारकोऽपि भवेद् गुप्तौ,
चरन्ति अनेन चारः । स्वार्थिके के, चारकः । गुप्यते रक्ष्यतेऽस्यां पुमान् गुप्तिः । “स्त्रियां क्तिः " [५/३/९१] इति किः । तस्याम् ।
तापसे तु तपस्व्यपि ।
नशनं च पलायने ॥ ७० ॥ इत्यनट् । पलाय्यते पलाइत्यनेन उपसर्गसम्बन्धिनो
तपः शीलम् अस्य तापसः । “अस्थाच्छत्राऽऽदेः०" [ ६|४|६० ] इति अञ् । तपोऽस्यास्तीति वा । ज्योत्स्नादित्वाद् अणू । तपो विद्यतेऽस्य तपस्वी । "अस्तपोमायामेधानजो विन्” [ ७।२।४८ ] इति विन् ।
विप्रे ब्रह्माऽपि च
विविधं प्राति—पूरयति विप्रः । " क्वचित् [ ५1१1१७१]” इति डः । विशेषेण पातीति वा । “खुरक्षुर ०" [ उ. ३९६ ] इति रे निपात्यते । तत्र । वृंहते ब्रह्मा । अमेदोपचारात् “बृंहेर्नोऽच्च" [ उ.९१३] इति मन्, नकारस्य चाऽकारः । आग्नीधाऽऽग्नयपि
“ञिइन्धैपि दीप्तौ” अग्निम् इन्द्रे अग्नीध् क्विप्, “नो व्यञ्जनस्य ० " [४/२/४५ ] इति नैलुक् । अग्नीधः । ऋत्विग्विशेषस्य इयं आग्नीध्रा । गृहेऽग्नीधो रण वश्व"
१. जे. इत्यण् । २. जे. 'न' नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org