________________
४२
श्रीश्रीवल्लभगणिविनिर्मिता ईल्यते-स्तूयते ईली, एकधारोऽसिः, तुरुष्कायुधम् । तत्र'। तरस्य-बलस्य वालः तरवालः । अल्पः तरवालस्तरवालिका । न्युब्जः, खड्गः । कडतलम् इति व्याडिः । स च देश्याम् अपि ।
परिधः पलिघः समौ ॥६८॥ परिहन्यते अनेनै परिघः, लोहबद्धो लगुडः । “परेघः" [५।३।४०] इति अलि 'घ'आदेशः । “परेोङ्कयोगे" [ २।३।१०३ ] इत्यनेन रेफस्य लत्वे पलिघः ॥६८॥
ऊर्जस्व्यूर्जस्वान्
ऊर्ग बलमस्त्यस्य ऊर्जस्वी । " ऊों विन्वलावश्चान्तः" [७।२।५१ ] इति विन् प्रत्ययः, अस् च अन्तः। ऊों बलम् अस्त्यस्य ऊर्जस्वान् । “तदस्यास्त्यस्मिन् इति मतुः" [७।२।१] इत्यनेन ऊर्जयतेरस्प्रत्ययान्तस्य मतुः प्रत्ययः । मतौ ऊर्वान् अपि । ऊर्जातिशयान्वितः ।
मगधो महो बोधकरोऽर्थिकः। 'मगधः कण्ड्वादौ । मगध्यति याचते मगधः । अच् । वंशोदीरणेन यो याचते । यदाहु:-"मागधाः स्तुतिवंशजाः" इति । “मनिच् ज्ञाने" मन्यते मङ्खः । "शमिमनिभ्यां खः" [उ. ८४ ] इति खः । बोधम्-प्रबोधम् करोति मङ्गलपाठैरिति बोधकरः। अर्येव अर्थिकः । स्वार्थिकः कः । अर्थो विद्यतेऽस्य वा । “अतोऽनेकस्वरात्" [ ७।२।६ ] इति इकः ।
सौखशायनिकः सौखशय्यिकः सौखसुप्तिकः ॥६९॥
सुखम् च तत् शयनं च सुखशयनम् , सुखशयनम् पृच्छति सौखशायनिकः । "सुस्नातादिभ्यः पृच्छति" [ ६।४।४२] इति इकण् । अनुशतिकादिपाठात् उभयपदवृद्धिः । सुखशय्याम् पृच्छति सौखशय्यिकः । सुखम् खुप्तम् पृच्छति सौखसुप्तिकः । उभयत्र “सुस्नातादिभ्यः पृच्छति" [ ६।४।४२ ] इति इकण् । वैतालिकनामानि ॥६९॥
रणे संस्फेटसम्फेटौ
रणन्ति शब्दायन्ते दुन्दुभयोऽत्र रणम् । पुंक्लीबः । “पुन्नाम्नि." [५।३। १३० ] इति बाहुलकाद् घः । तत्र । “घट्ट स्फिटण हिंसायाम्" संस्फेटयति कातरहृदयानि संस्फेटः । “पुनाम्नि०" [५।३।१३० ] इति घः । स्फेटोऽपि ।
१. जे. प्रतौ 'तत्र' नास्ति । २. प्रा. प्रतौ 'अनेन' नास्ति । ३. जे. संस्फोटयति । १. जे. संस्फोटः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org