SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ हैमनाममालाशिलोञ्छदीपिका गच्छति अतिथिः । “भतेरिथिः"[उ.६७३] इति इथिः । नास्ति तिथिः अस्येति वा अतिथिः प्राघूर्णकः तत्र। “तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ।" [ ]इति वचनप्रामाण्यात् । "अध्वनीनोऽतिथिज्ञेयः" [ ]इति च स्मृतिः। स्त्रियां च 'अतिथि' इत्याहुः। कुल्येऽभिजः कुलस्याऽपत्यं कुल्यः । “यैयकञआवसमासे वा" [६।११९७] इति यः । अभिजातोऽभिजः । "क्वचित्" [५।१।१७१] इति डः । कुलीननाम्नी। गोत्रं तु सन्ततिः। गूयते कथ्यतेऽनेन गोत्रम्, अन्वयः । “हुयाभा०"[उ.४५१] इति त्रः । सन्तन्यते सन्ततिः । “स्त्रियां क्तिः" [५।३।९१] इति क्तिः । महेला योषिता च स्त्री “मह पूजायाम्" मह्यते महेला । "महेरेलः" [उ.४९२] इति एलः । “युष भजने" सौत्रः। योषति पुरुषम् योषित् । “हसृरुहियुषि०" [उ.८८७] इति इत् । प्रत्ययः । अजादित्वाद आपि....योषिता। "जुष परितर्कणे" "जोषयतीति जोषा"[] इति चन्द्रेण चवर्गादिरुक्तः। स्तृणाति धर्मम् , स्त्यायति अस्यां गर्भ इति वा स्त्री । "स्त्री स्यतेः०" [उ.९१५] इति त्रट् प्रत्ययः ।। तरुणी युवतीत्यपि ॥३९॥ तरति कौमारम् वयः तरुणी । “यम्यजि." [उ.२८८] इति उनः । “वयस्यनन्त्ये" [२।४।२१] इति ङीः । "युक् मिश्रणे" यौति युवती । “योः कित्" [उ.६५८] इति अतिः। "इतोऽक्त्यर्थात्" [२।४।३२] इति वा ङीः ॥३९॥ स्ववासिनी चरिण्टी च चिरिण्टी च चरण्टयपि । वधूटयाम् स्वस्मिन् आत्मनि वसति इत्येवंशीला स्ववासिनी इति द्रमिलाः । “चिरिः सौत्रः स्वादिः" । चिरिणोति चरिण्टी चिरिण्टी च । “हिण्टश्चर् च वा" [उ.१५०] इति चिरेः डित् इण्टः प्रत्ययः, चर् इत्यादेशोऽस्य वा भवति । चरति आत्मनि चरण्टी । "कपटकीकटादयः" [उ.१४४] इति अटे निपात्यते । सर्वत्र "वयस्यनन्त्ये" [२।४।२१] इति ङीः । बध्नाति कटाक्षैर्वधूटी । “बन्धेः" [उ.१५७] इति कित् . ऊटः । उह्यते वा वधूः । “वहे: च" [उ.८३२] इति । "वहीं प्रापणे" इत्यस्माद् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy