________________
282
Vasudevahirndi : Majjhima-khanda स च बन्धासहिष्णुः सन्स्तम्भमुत्पाटय तोरणात् । नरवाहनदत्तोऽत्र तद्भत्यानवधीद्वहून् ॥ १६० तन्मध्यात्खड्गमेकस्य हतस्यासाद्या तत्क्षणात् । जघान से।ऽन्यानपि तान्वीरे। दिव्यपराक्रमः ॥ १६१ ततो मानसवेगस्त दिव्यया निजविद्यया । बबन्ध भार्यानुगत नयति स्म च तां सभाम् ।। १६२ तत्र भेरीमहाशब्दसमाहूता इतस्ततः । विद्याधरा मिलन्ति स्म सुधर्मायां यथा सुराः ॥ १६३ भागत्योपाविशच्चात्र रत्नसिंहासनोपरि । राजा वायुपथो नाम सभ्यो विद्याधरैवृत: ॥ १६४ व्याधुन्वद्भिरिवाधर्म वीज्यमानस्य चामरैः । तस्य मानसवेगोड स्थित्वा पापोऽब्रवीदिदम् ।। १६५ मोऽप्यन्तःपुरध्वंसकारी विध्वंसकः स्वसुः । शत्रुर्ममाय वध्योऽय स्वाम्यकामः किलैष नः॥ १६६ तच्छ्रुत्वा तेन सभ्येन पृष्टः प्रत्युत्तर प्रति । नरवाहनदत्तोऽत्र वीरो विस्रब्धमब्रवीत् ॥ १६७ सा सभा यत्र सभ्योऽस्ति स सभ्यो धर्ममाह यः स धर्मो यत्र सस्य स्यात्तत्सत्य यत्र न च्छलम्।। १६८ बद्धोऽह माययात्रव स्थितो भूमावयं पुन: । आसनस्थश्च मुक्तश्च को विवाद: समोऽत्र नौ ॥ १६९ एतद्वायुपथः श्रुत्वा तमुपावेशयक्षितौ । न्यायान्मान सवेग स त मुक्त चाप्यकारयत् ॥ १७० ततः सर्गेषु अण्वत्सु तत्र वायुपथाग्रतः। नरवाहनदत्तोऽसावेवं प्रतिवचोऽभ्यधात ॥ १७१ हृतानीतामनेनंतां भार्या मदनमञ्चकाम । निजां प्राप्तोऽस्मि चेस्कस्य शद्धान्तो ध्वंसितो मया ॥ १७२ अस्या रूपेण चाभ्येत्य विप्रलभ्य कृतो यदि | अहं भर्ता भगिन्यास्य तत्र का मेऽपराधिता ।। १७३ स्वाम्यकामोऽस्मि चेत्कामः कस्य कुत्र न जायते । एतस्त्वा विमृश्याथ राजा वायुपथोऽब्रवीत् ॥१७४ धर्म्यमाह महात्मायं भविष्यत्सुमहोदयः । अस्मिन्मानसवेगत्वमधर्म भद्र मा कृथाः ॥ १७५ इत्युक्ते तेन नाधर्मान्मोहान्धो यन्न्यवर्तत । सेोऽत्र मानसवेगस्त क्रोधं वायुपथो ययौ ॥ ९७६ ततो मानसवेगेन सह संनद्धसैनिकः । बभूब तस्य संक्षोभस्तत्र धर्मानुरोधिनः ॥ १७७ धर्मासनोपविष्टा हि दुर्बल बलिन परम् । आत्मीय बत जानन्ति धीरा न्यायैकदर्शिनः ॥ १७८ विहाय मायां युध्यस्व स्पष्टमेव मया सह । यावदेकप्रहारेण हन्मि त्वां पश्य पौरुषम् ॥ १७९ इति मानसवेग च तदावोचद्विलोकयन् । नरवाहनदत्तोऽत्र दिव्यकन्याः सकौतुकाः ॥ १८.
अन्योन्य जातकलहेषु च तत्र तेषु विद्याधरेषु सहसैव सभान्तरस्थात् । स्तम्भोत्तमाहसदिति प्रविभिन्नमध्याद्देवोऽथ भैरववपुः किल निर्जगाम ॥ व्याप्ताम्बरोऽजननिभश्च विनिहनुतार्को विद्युल्लतातरलदीप्रविलोचनाचिः । दन्तप्रभाविततपङ्क्तिपतलाको गर्जन्महाप्रलयमेघ इव प्रचण्ड: ।। न भाविविद्याघरचक्रवर्तिनः राभवोऽस्यास्ति शडेति स ब्रुवन् । अधोमुखं मानसवेगमीश्वरो निराकरोद्वायुपथ प्रहर्ष यन् । आदाय त च भुजयोभगवान्भुजाभ्यां संरक्षणाय नरवाहनदरामाशु । प्रापय्य पर्वतवर शुभमृष्यमूकमास्थापयत्स किल तत्र ततस्तिरोऽभूत् ॥ प्रशशाम परस्पर सभायामथ विद्याधरस भ्रमः स तस्याम् । स च वायुपथो यथागत तैः सहितः सौरपरैस्ततो जगाम ॥ सोऽपि च मानसवेग: कृत्वा तां मदनमञ्युकां पुरतः । हर्षविषादाकुलितामाषाढपुर निजं ययौ विमः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org