________________
Appendix-I
281
१२५
अथकदा प्रसङ्गेन तस्मै मदनमन्चुका । नरवाहन दत्ताय स्ववृत्तान्तं शशंस सा ॥ तदा मानसवेगो मामिहानीय स्वमायया । प्रवर्तयितुमभ्यग्छद्भाययक्ररकर्मभिः ।। १२६ तावच्च प्रकटीभूय भगवान्भैरवाकृतिः । उद्धृतासिललज्जिह्वः कृत्वा हुंकारमभ्यधात् ।। १२७ इयं विद्याधरेन्द्राणां भाविनश्चक्रवर्तिनः । भार्या कथं त्वयास्मास स्थितेष परिभ्यते ॥ १२८ एवमुक्तो भगवता पपात धरणीतले । पायो मानसवेगोऽसौ मुखेन रुधिरं वमन् ॥ ततस्तिरोहिते देवे समाश्वस्तः क्षणादसौ । गतः स्वमन्दिरं भूयो मयि क्रौर्यान्यवर्तत || १३० अथ मीता वियोगातो प्राणत्यागोन्मुखीमिह । एत्यान्तःपुरचेट्यो म सान्त्वयन्न्योऽब्रवन्निदम ॥ १३१ मुनिकन्यां पुरा कांचिदृष्ट्वा रूपवती हठात् । हरन्मानसवेगोऽयतद्वन्धुभिरशप्यत । परनारीमनिच्छन्तीं यदा पाप गमिष्यसि । तदा ते शतधा मूर्धा विदलिष्यत्यसाविति ।। १३३ अतो नैष बलादगच्छेपरस्त्री मा भय कथा:। देवादेशाच्च भाते भयो भाव्येव संगमः || ११४ एवं ममोक्ते चेटीभिः क्षणाद्वेगवती स्वसा । सास्य मानसवेगस्य संबोधयितुमागमत् ॥ १३५ मद्दर्शनकृपाविष्टा सा खदानयनेन माम् । आश्वास्य त्वां यथा प्राप्ता तथैव विदित तव ।। १३६ अथ ज्योत्स्नासितैर्वस्त्रैश्चान्द्री तनुरिवामला । दर्शनेनैव सौम्येन सिञ्चःती सुधयेव माम् ।। १३७ उपेता पृथिवीदेवी माता साध्वी दुरात्मनः । अस्य मानसवेगस्य सस्नेहमिदमब्रवीत् ॥ १३८ त्यक्त्वाहार शुभोदर्क किमात्मानमुपेक्षसे । शत्रोरन्न कथ भोक्ष्य इति मा च कृथा हृदि ।। १३९
गवत्या मे राज्येऽस्मिन्वितकल्पितः । भागोऽस्ति सा च भळ ते परिणीता सखी तव ।। १४० तद्धन भर्तृ संबन्धि तव चात्मीयमेव च । तदेतद्भुक्ष्व विद्यातो ज्ञात्वा सत्य वदामि ते ॥ १४१ एवमुक्त्वा सशपथ भोजितास्मि तया तदा । अवस्थोचितमाहार सुतास बन्धबद्धया ।। १. ततस्त्वया सहागत्य वेगवत्यैष निर्जितः । भ्रातेह रक्षितस्त्वं च शेषमत्र न वम्यहम् ॥ १४३ अथ वेगवतीसिद्धिं तदेवतवचोऽप्यहम् । स्मरन्ती नामुच प्राणांस्त्वत्प्राप्त्याशावलम्बितान् ॥१४४ ततो महानुभावायाः प्रभावत्याः प्रभावतः । स्व शत्रुस कटेऽप्यस्मिन्प्राप्तस्तावमयाधुना ॥ १४५ चिन्ता तु मे विलुप्ता चेद्भवेदत्र प्रभावती । नश्येच्च तव तद्रूप ततोऽस्माक नु किं भवेत् ।। १४६ इत्यादि ब्रुवती धीरीकुर्वन्मदनमचुकाम् । नरवाहनदत्तोऽसौ वीरोऽत्रास्त तया सह ॥ १४७ एकदा च प्रभावत्यां यातायां भवन पितुः । प्रभातसमये नष्टतद्रूप तदस निधेः ॥ १४८ नरवाहनदत्तं तदृष्ट्वा पुरुषरूपिणम् । पारदारिक एषोऽत्र प्रविष्ट इति साकुलः ॥ १४९ भयाद्राजकुले गत्वा सर्वः परिजनोऽभ्यधात् । वारयन्तीमपास्येव भीता मदनमञ्चुकाम् ॥ १५० ततो मानसवेगोऽत्र स राजा स्वबलान्वितः । नरवाहनदत्त त धाविश्वा पर्यवेष्टयत् ॥ १५१ अथ त पृथिवीदेवी माता सस्वरमेत्य सा । राजानमब्रवीत्पुत्र हन्तव्योऽयौं न ते न मे ॥ १५२ न पारदारिको ह्येष वत्सराजात्मजो स्वयम् । नरवाहनदत्तोऽत्र निजां भार्यामुपागतः ॥ १५३ विद्याबलेन जानेह कोपान्धः किं न वीक्षसे | जामाता चायमस्मा पूज्यः शशिकुलोद्भवः ॥ १५४ एवमुक्तस्तया मात्रा तर्हि शरय मम । इति मानसवेगोsसो जाताम! जगाद ताम् ॥ १५५ ततः सा त पुनर्माता जामातृस्नेहतोऽभ्यधात् । नाधर्मो लभ्यते कर्तु लोके द्याधरे सुत ॥ १५६ इह विद्याधगणां हि धर्मार्था विद्यते सभा । तत्रास्य तत्प्रधानाग्र दोष शिरसि पातय ॥ १५७ ततो यस्क्रियतेऽमुष्य शोभते तदतोऽन्यथा । विद्याधरा विकुर्वीरन्न सहेर श्व देवताः ॥१५८ एतस्या वचेा मातुर्गोरवात्प्रतिपद्य सः । सभां मानसवेगस्त नेष्यबन्धु प्रचक्रमे ।। १५९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org